"स्वभाषां परिवर्तयसि चेत् स्वविचाराः परिवर्तन्ते।"
कार्ल आल्ब्रेक्ट

बीरेल्लि शेषि, एम.डी.

अनुक्रमणिका

अक्षरशिक्षा – संस्कृतं/हिन्दी (देवनागरी), तेलुगु उर्दू (नस्तलीख्) च इत्येतासां लिपीनाम् आपार्श्वान्तरात् अक्षरालेख्ययोजनार्थं प्रयासः

बीरेल्लि शेषी, एम्.डी.
BSeshi@multilanguaging.org
BSeshi@outlook.com

 

प्रस्तावना

अक्षरालेख्ययोजनम् इत्यनेन अहं भाषाणाम् (यथा आङ्ग्लं, तेलुगु, हिन्दी, उर्दू संस्कृतं च) आपार्श्वान्तरात् अक्षरशः अथवा वर्णशः अनुवादम् उद्दिशामि I
तत् कस्याश्चित् भाषायाः ध्वनीनाम् अन्यभाषाध्वनिभिः सह योजनम् अस्ति I
अस्मिन् प्रकल्पे शब्दशः वाक्यशः च अनुवादाः यथा अनुष्ठिताः तेषां विपर्ययः एतत् I
यदा निरूढानुवादाः भाषाणाम् आपार्श्वान्तरात् अर्थायोजनं रचयन्ति अक्षरशिक्षा तु ध्वनियोजनं रचयति I
भाषाणां मध्ये वर्णस्तरानुवादः लिप्यन्तरणम् इति विपर्यासेन द्रष्टुं शक्यते I

यथा शब्दानुवादः/वाक्यानुवादः अर्थान्/भावनाः/विचारान् योजयति तथैव वर्णशः अनुवादः कस्याश्चित् भाषायाः ध्वनीन् अन्यभाषायाः ध्वनिभिः सह योजयति I
पुनरपि पूर्वः प्रायेण काचन मानसिकक्रिया या शब्दैः/वक्यैः सह संयुक्तध्वनीन् अनपेक्ष्य तद्द्वारा वर्णितेषु वस्तुषु अथवा विचारेषु व्यवहरति यर्हि अपरः च प्रायेण शारीरकः ऐन्द्रियकः च भूत्वा केवलं वर्णद्वारा बोधितस्य ध्वनेः भासे व्यवहरति I

छात्रैः पञ्चभाषाणां वर्णमालाः पठनीयाः इत्येतत् प्रथमचिन्तने तु आह्वानप्रदं कठिनं च इति अवभासेत I
परं यदि छात्राः ताः पठितुम् आरभेरन् तर्हि तत् यथा त्रासजनकम् अवभासते तथा न भवेत् I
संयुक्तानाम् Excel (एक्सेल्) कार्यपत्राणाम् उद्देशः एतेषां वर्णानां मध्ये बन्धुतायाः उदग्रीकरणं यत् तेषां अधिगम्यतां प्रवर्धयति I

अनेकपाठकाः यथा जानीयुः हिन्दी संस्कृतं च देवनागरी इति समानलिपिं प्रयोजयतः I
यद्यपि तेलुगु भिन्नलिपिं प्रयोजयति तथापि तस्याः वर्णमाला देवनागर्या सह सारतः अनन्या अस्ति I
भेदान् लघूकर्तुं न अस्य उद्देशः परं तेलुगुहिन्दीसंस्कृतानां वर्णमालाः व्यवहारतः एकवर्णमाला एव I
अयम् अस्ति भेदः यत् यदा संस्कृतं हिन्दी च देवनागरीलिपिं प्रयोजयतः तेलुगु भिन्नलिपिं प्रयोजयति – समानध्वनयः परं भिन्नलिपयः/भिन्नलेख्यानि I
"समानध्वनिः परं भिन्नलिपिचिह्नम्" इति अयं विचारः "विविधतायामेकता" इत्यस्य भारतस्य राष्ट्रियादर्शवक्यस्य अन्यत् प्रत्यक्षरूपम् I
बालकेभ्यः बोधितव्यः महार्थसन्देशः अस्ति यत् यद्यपि बाह्यरुपाणि भिन्नानि तथापि सारः समनः एव भवति – "a" ("अ") इति समानध्वनिः तेलुगु, संस्कृतं/हिन्दी उर्दू च इत्येतासां लिपिषु भिन्नरूपेण आलिखितः – అ, अ/अ, च ا.

दृश्यमाध्यमद्वारा विशेषतः बालेभ्यः दृश्यलेखद्वारा अथवा पटुदूरभाषाय अनुप्रयोगद्वारा कल्पनाशीलेन मनोरञ्जकेन च प्रकारेण एतत् साधयितुं शक्यते I
एतत् प्रौढविद्यार्थिभ्यः समं बोधावहं भविष्यति यतः एतत् बाह्यतः भिन्नरूपेण प्रच्छादितस्याः मूलभूतसमानतायाः सबलसन्देशं ददाति I
अपरञ्च एताः सर्वाः भाषाः जननि-सुता इति रूपेण वा अथवा भगिन्यः/ज्ञातयः इति रूपेण वा परस्परं समवेताः इति तथ्यं दृढयिष्यति I
FAQs (बहुलम् अर्थिताः प्रश्नाः) विशेषतः FAQ 3 FAQ 10 च इत्येतेषां प्रतिवचनसमये एतं सन्देशं दातुम् अहं प्रयत्नम् अपि कृतवान् अस्मि I

वस्तुतः एतासां भाषाणां शब्दकोशानां/शब्दानां तुलनया अक्षरशिक्षा एतं प्रसङ्गं सुदृढं प्रकटयति I
शब्दानां विषये तु वयं पश्यामः यत् गच्छता कालेन च प्रभवात् द्वैध्यकारणात् च कस्यचित् अनन्यशब्दस्य भिन्नभाषासु कदाचित् अर्थः भिन्नः अथवा सूक्ष्मतया भिन्नः भवेत् (यः कदाचित् तदनुवादम् अस्पष्टतां गमयेत्) I
परं ध्वनयः समानाः तिष्ठन्ति नवीनध्वनयः संकलिताः अथवा केचन पुरातनध्वनयः परित्यक्ताः भवेयुः तथापि वर्णमाला तु विशेषतः तेलुगु, हिन्दि संस्कृतं च इति भाषाणां वर्णमाला तु अतिमात्रम् अविकृतं तिष्ठति I
अतः एतासां वर्ण्मालानाम् अध्ययनपरिपोषणयोः महत्त्वविषये मम वचनं कियदपि दृढम् उक्तं तत् अल्पतरम् एव भवेत् I

आङ्ग्लं लाटिन्/रोमन् वर्णमालां प्रयोजयति या अध्येतुं श्लाघ्यप्रकारेण सुकरतमा अस्ति I
लाटिन् लिपितः च तेलुगु, हिन्दी संस्कृतं च इति एतासां वर्णमालाभ्यः च अतीव भिन्ना पारसी-आरबीवर्णमालाम् आधारिता उर्दू एव कृच्छ्रतायाः दृष्ट्या उद्रिक्ता अस्ति I
पुनः यद्यपि उर्दू हिन्दीलिपितः भिन्नलिपिं प्रयोजयति तथापि तयोः दैनिकभाषा च व्याकरणं च मूलतः अनन्ये स्तः I

उपरिदत्तपरिलेखानुसारं मम प्रसङ्गः अस्ति यत् एतत् असम्बद्धानां पञ्चभाषाणाम् अथवा पञ्चलिपीनाम् उदाहरणार्थम् आरबी, चीनी, देवनागरी, यावन, युकाटेक् माय च इत्येसासां लिपीनां अध्ययनवत् न अस्ति I

संयुक्तः "वर्णमालानाम् आलेख्ययोजनस्य संग्रहाः" इति विभागः तेलुगु, हिन्दी, उर्दू संस्कृतं (ते हि उ सं) इत्येतासां वर्णमालानां सम्बद्धतां स्फुटम् उदग्रयति I
नवीनविद्यार्थिनं प्रोत्साहयितुं च अस्तव्यस्तदृशः उर्दूलिपेः सः/सा न भीतः/भीता इति च स्थिरीकर्तुम् अहम् उर्दूवर्णान् विविधगणेषु ग्रथितुं प्रयत्नं कृतवान् अस्मि यत्र प्रत्येकं गणस्य अभ्यन्तरे मूलभूता अक्षिगताकृतिः प्रदर्शिता I
तेलुगु, हिन्दी, उर्दू संस्कृतं (ते हि उ सं) इत्येतासां वर्णानाम् आलोकनम् अध्ययनं स्मरणं प्रयोगं च सुकरं कर्तुं तान् अहं वामतः दक्षिणं प्रति तिर्यक् विनिर्मितानां दशसंग्रहाणां रूपेण ग्रथितवान् अस्मि यथा "वर्णमालानाम् आलेख्ययोजनस्य संग्रहाः" इति संयुक्तविभागे –

संग्रहः 1 – देवनागरी तेलुगु च इत्येतासां स्वराः
संग्रहः 2 – देवनागरी तेलुगु च इत्येतासां व्यञ्जनानि
संग्रहः 3 – देवनागर्याः संयोगाः
संग्रहः 4 – देवनागरी उर्दू च इत्येतासां विशेषव्यञ्जनानि
संग्रहः 5 – देवनागरी हिन्दी विरुद्धम् उर्दूस्वराः
संग्रहः 6 – देवनागरी हिन्दी विरुद्धम् उर्दूव्यञ्जनानि
संग्रहः 7 – देवनगरि विरुद्धम् उर्दू – एकध्वनिरूपवर्णयुग्मम् (तारव्यञ्जनानि/महाप्राणाः)
संग्रहः 8 – बिन्दुसहिताः उर्दूवर्णाः
संग्रहः 9 – बिन्दुरहिताः उर्दूवर्णाः
संग्रहः 10 – सकलरूपसहिता संपूर्णा उर्दूवर्णमाला

आशंसितम् अस्ति यत् एतत् प्रकृतवर्णानाम् अध्ययनं स्मरणं प्रयोगं च सुकरतरं करिष्यति I
प्रत्येकवर्णं केनचित् उदाहरणशब्देन सह संसृज्य यः सामान्यतः तद्वर्णारम्भः भवति मूर्तरुपेण च प्रदर्शितः अस्ति यथा बलकाः प्रदत्तभाषायाः वर्णमालां संप्रदायतः अधीयीरन् तथैव "शब्दस्तरयोजनदर्शकाः वर्णमालाचित्रपटाः" इति विषयकः संयुक्तविभागः पञ्चभाषाणां वर्णमालाचित्रपटान् प्रकटयति I

लक्षीकृताः छात्राः ३ – ५ वर्षीयाः (त्रिवर्षीयादिपञ्चवर्षीयान्ताः) शिशुविहारस्थबालाः भविष्यन्ति I

प्रधानतया तेषां "ग्रहणशीलमनोभिः" तुलनात्मकं/सहसम्बद्धं चिन्तनम् अध्ययनं च अनुमन्तुम् एषः विभागः प्रत्येकभाषातः अवशिष्टाभिः चतसृभिः भाषाभिः अनुरुपाणाम् उदाहरणशब्दनां अनुवादं कृत्वा युगपद् तेषां परिचयं प्रवेशयति I
प्रत्येकभाषायाः वर्णमालां व्यक्तीकर्तुं ये उदाहरणशब्दार्थाः अभिवृताः ते अतिव्याप्तिं विना तद्भाषायाः अनन्यसाधरणाः शब्दार्थाः भवन्ति I
आङ्ग्लं, तेलुगु, हिन्दी, उर्दू, संस्कृतं च इत्येतासु यथाक्रमं २६, ५१, ५७, ३९ ४९ च अक्षराणि/वर्णाः सन्ति इति विचिन्त्य एषः पञ्चभाषासु २२२ रूपाणां/शब्दानां/अर्थानां चित्रस्य सांस्कृतिकमूल्यस्य बालचित्तेषु निवेशनम् अनुमन्यते I
प्रत्येकं अक्षरार्थम्/वर्णार्थम् एकस्य उदाहरणशब्दस्य स्थाने द्वौ अधीत्य एषा सङ्ख्या द्विगुणं वर्धिष्यते (एषा ४४० इत्येतस्मात् किञ्चित् परं भवति) I
दशकेभ्यः प्रचलिताः मानशब्दसङ्ग्रहाः यावत् समधिकानां नवीनानाम् अर्थानां/भावनानां/विचाराणां प्रवेशनं अनुमन्येरन् तस्मात् परस्तरं एषः प्रवृद्धप्रसरः विकासिभ्यः मतिभ्यः समधिकानां नवीनानाम् अर्थानां/भावनानां/विचाराणां प्रवेशनं अनुमन्यते विशेषतः यथा ते एतासां भाषाणां सांस्कृतिकरूढिभिः सम्बद्धाः भवेयुः I

आलोकनम् अध्ययनं च सुकरं कर्तुम् अहम् एतान् 1 – 5 चित्रपटान् वामतः दक्षिणं प्रति तिर्यक् ग्रथितवान् अस्मि – आङ्ग्लं, तेलुगु, हिन्दी, उर्दू संस्कृतं च इति I
भविष्ये चित्राकृतीनि उदाहरणानि नेपथ्ये कथनानि चित्रचालनानि च काल्पनिकान् शिक्षकान् प्रयुज्य आलिखितानि भविष्यन्ति यथा –

सरोजा महोदया (सरोजिनी नायिडु इति महोदयायाः कृते – आङ्ग्लम्)
वेम महोदयः (वेमन इति महोदयस्य कृते – तेलुगु)
प्रेम् महोदयः (प्रेमचन्द् इति महोदयस्य कृते -हिन्दी)
मिर्झा महोदयः (घालिब् इति महोदयस्य कृते – उर्दू)
कालिदास महोदयः (कालिदसस्य कृते – संस्कृतम्)

अधीतानां पञ्चभाषाणामपि वर्णमालानां ज्ञानं समाहर्तुम् उद्देशेन वर्णानां च/अथवा शब्दानां मिश्रणयोजनात्मकाः क्रीडाः अभ्यासाः च सृष्टाः भविष्यन्ति I
उपरिदत्तपरिलेखानुसारं वर्णमालाप्रवीणस्य कस्यचित् बालकस्य कल्पनां करोतु यः आत्मानं सशक्तः मत्वा पूर्णप्रगल्भतया अभिभावकबलम् अथवा बृहत्प्रतिमानम् इव शालां गच्छेत् I

यथा उपरि उक्तं यथा च FAQ १३ इत्यस्मिन् विचारितं यावत् वयम् अस्य प्रकल्पस्य विषये उन्नतिं यामः तावत् एतासां वर्णमालानां मध्ये समानताः भिन्नताः च उदग्रयित्वा पटुदूरभाषाय अनुप्रयोगलेखनं दृश्यलेखनिर्माणम् अथवा दृश्यलेखक्रीडासर्जनम् अपि अस्मभिः करणीयं भवेत् यत्र अक्षरैः सह नाटकस्य मनुष्यपात्रवत् व्यवहारः भवेत् I
अपरञ्च अक्षराणि अवधानस्य पदं कृत्वा स्वापिकाः अथवा बालगीतानि रचिताः साह्लादं प्रगीताः च भवितुम् अर्हन्ति I
उल्लासपूर्णेन परिणामेन सह एतासां वर्णमालानां तुलनात्मकशिक्षणं साधयितुम् एतत् साहाय्यं करिष्यति I
अन्ततः अपेक्षितम् अस्ति यत् अयं बहुभाषाप्रयोगप्रकल्पः लिपीनां भाषाणां च विविधतायाः विनाशात् संरक्षणस्य विवर्धनं करिष्यति इति यतः ताः मानवसंस्कृतेः इतिहासस्य च आधारभूतस्य अंशस्य मूर्तिः भवन्ति I
इदानीं तु तेषां गाढसम्बद्धतां अथवा तस्याः अभावं वा द्रष्टुं क्षमता एव पर्याप्तं भवेत् I

अस्मिन् बहुभाषाप्रयोगप्रकल्पे अधोदत्ताः लिप्यन्तरणस्य (रौमकलिपीकरणस्य) व्यवस्थाः प्रयुक्ताः –

देवनागरी – संस्कृतम् – संस्कृतलिप्यन्तरणस्य अन्ताराष्ट्रियवर्णमाला (ऐ ए एस् टि)
देवनागरी -हिन्दी – लैब्रेरि ओफ् कोङ्ग्रेस्स् (एल् ओ सी) इति पद्धतिः
तेलुगु – एल् ओ सी इति पद्धतिः
उर्दू – एल् ओ सी इति पद्धतिः

वस्तुतः ऐ ए एस् टि (IAST) च एल् ओ सी (LoC) च इति पद्धती सदृश्यौ इति ज्ञानम् उपयोगि भवेत् I

आशंसितम् अस्ति यत् यावत् वयं सङ्गामिरूपेण लिपिशिक्षणस्य विचारस्य अनुष्ठानं प्रति प्रचलामः एषः उपरिदत्तः प्रारम्भः तत्कृते मार्गं विरचयिष्यति इति I
प्रकल्पस्य अस्यां दशायाम् अक्षरशिक्षाविषया एषा "प्रस्तावना" प्रथमतः प्रौढविद्यार्थिनः जनकजननीः अध्यापकान् शिक्षकान् तन्त्रांशनिर्मातॄन् नीतिनिर्णयकर्तॄन् अनुरक्तनागरिकान् च प्रति लक्षीकृता अस्ति I
शिशुविहारस्थबालकानाम् एतासां लिपीनां युगपद् शिक्षणम् अन्तिमलक्ष्यम् अस्ति तदर्थम् आवश्यकानां योग्यसाधनानां (तन्त्रांशसाधनम् अथवा अन्यत्) निर्माणे इदं कार्यं निःसन्देहं साहाय्यं करिष्यति I

अन्ततः अस्य विषयस्य स्मरणं प्रधानं यत् अत्र प्रदत्ता सूचना न कथञ्चन पूर्णा तया च कक्षायां पठनीयानि इति अपेक्षितानि सर्वाणि सौक्ष्म्यानि वैषम्यानि च विचारितानि न भवेयुः इति I
सविस्तरनिर्देशार्थं "उल्लेखाः" इति संयुक्तविभागं पश्यतु I

स्वीकारः –
अक्षरशिक्षाप्रलेखानां रचनायाम् एताभ्यां प्रबलप्रोत्साहनं गुणदोषविवेचनात्मकसमीक्षा उपयोगिप्रवादाः च दत्ताः इत्यर्थम् अहं अविदितनामभाषाविदौ एस् एस् च टी एस् च इति महोदयौ धन्यं वदामि I