"स्वभाषां परिवर्तयसि चेत् स्वविचाराः परिवर्तन्ते।"
कार्ल आल्ब्रेक्ट

बीरेल्लि शेषि, एम.डी.

प्रसारमाध्यमानां सद्यस्कख्यापनार्थम्

आङ्ग्लं तेलुगू हिन्दी उर्दू संस्कृतं च इति भाषासु

सम्पर्कः
बीरेल्लि शेषी एम् डि
डाक्टर् शेषी महोदयस्य बहुभाषाप्रयोगस्य कृते अन्ताराष्ट्रियकेन्द्रः
बहुभाषाप्रयोगस्य कृते शेषी विद्याविहारः
वैविध्यम् अस्माकं परम्परा अस्ति

दूरवाणीसङ्ख्या – (310) 971-1810
वैद्युतकपत्रसङ्केतः – bseshi@multilanguaging.org
जालस्थानसङ्केतः- www.multilanguaging.org

किं भवान् युगपद् पञ्चभाषाः शिक्षितुं शक्नोति?
किमर्थं तेलुगू हिन्दी आङ्ग्लम् उर्दू संस्कृतं च?


वैल्डर् के वै यू एस् ए, तिथिः 03/22/2021

टिप्पणी – वस्तुतः 03/22/2021 दिनाङ्के अस्य प्रसारमाध्यमख्यापनस्य केवलम् आङ्ग्लभाषया च नवीकृतं पाठान्तरं प्रसारितम्; आङ्ग्लम्, भारतीयभाषाः इत्यत्र पश्यतु I

"बहु-भाषाप्रयोगः" एकः नवीनः बहुभाषिकः अथवा अनेकभाषिकः शैक्षिकप्रस्तावः I
सः अनेकभाषाणां युगपद् अध्ययनं समर्थयते तत्कृते शक्तं करोति च I
युगपद् पञ्चभाषाः कथम् अध्येतव्याः इति सः दर्शयति I
ताः तिस्रः अखिलभारतीयभाषाः (हिन्दी, उर्दू संस्कृतं च) एका अन्ताराष्ट्रियभाषा (आङ्ग्लम्) एका च प्रादेशिकभाषा (तेलुगु या यथोपपदं डाक्टर् शेषी महोदयस्य मातृभाषा) I
सर्वाः च प्रथमवर्गतः (कक्ष्या कक्षा वा) प्रवर्तन्ते I
तेलुगुभाषा कयापि अन्यप्रादेशिकभाषया परिवर्तिता भवेत् I
अयं प्रस्तावः भारतस्य विशिष्टपरिस्थितेः सञ्जातः I
इदं विधानं सामान्यपरिसरे च विश्वस्य सर्वासां भाषाणां कृते च प्रयोज्यम् अस्ति I

बहुभाषाप्रयोगः "गुणान्वितानां" व्यक्तीनां केवलविषयं भवितुं न शक्यम् I
बहुभाषाविधानम् उपयुज्य यस्य कस्यापि तत्र अवकाशः भवितुं शक्यते I

प्रत्येककक्षायां प्रत्येकपाठस्य आधेयम् अथवा विषयसामग्री सर्वासु पञ्चभाषासु समानं भवति I
सर्वासां पञ्चभाषाणां प्रदर्शका सामग्री तत्र अन्तर्गता भविष्यति I
भारतस्य वर्तमानपद्धत्यां भिन्नैः आधेयैः सह त्रिभाषाशिक्षणं प्रतिमानम् अस्ति I
भिन्नाः भाषाः भिन्नवर्गस्तरेषु पाठ्यक्रमे प्रवेशिताः भवन्ति I
सर्वप्रधानः मौलिकतमः अधिकं निर्णायकः च आशयः यः उक्तः सः भिन्नभाषासु समानाधेयस्य उपयोगः प्रचलितपद्धतेः भिन्नभाषासु भिन्नाधेयस्य उपयोगात् साधकतरः इति अस्ति I
पञ्चभाषाणां प्रतियोगिकत्वेन युगपद् च अध्ययने आत्मनः निमज्जनाय छात्रान् समर्थीकर्तुम् अयं प्रस्तावः मतिपूर्वं आधेयमात्रां नियमयति I

पाठानां वरणार्थम् अनुपूरकसामग्रीणां च रचनार्थम् अयं प्रस्तावः मार्गदर्शकानि तत्त्वानि कल्पयति I
अस्य प्रस्तावस्य च सम्बद्धविषयाणां च अनेकानाम् आकाराणां सविस्तरव्याख्याः सुलभेन उपलभ्ये पठित्रानुकूले "प्रश्नः उत्तरं च" इति संरूपे प्रदत्ताः सन्ति I
ताः अस्य प्रस्तावस्य व्यापकमतिं कल्पयन्ति I
इदं जालस्थानम् एतान् प्रलेखान् सर्वासु पञ्चभाषासु – आङ्ग्लं तेलुगु हिन्दी उर्दू संस्कृतं च इत्येतासु – उपहरति येन ते एतासु भाषासु कस्याश्चन अपि भाषायाः वक्तृभ्यः उपलभ्याः भवन्ति I

विस्तीर्णपत्र (स्प्रेड्शीट्) संरूपे बहुभाषाप्रयोगस्य तत्संवादीनि पदपुस्तकानि अपि इदं जालस्थानम् (वेब्सैट्) उपहरति I
तानि अध्ययनाय उपकरणानि सन्ति I
तानि मैक्रोसाफ्ट् एक्सेल् इत्यस्मिन् एतेषां प्रलेखानां पञ्चभाषासु पदशः अनुवादं कल्पयन्ति I
तानि पठितारं/छात्रं पञ्चभाषसु अपि पदपुस्तकविषयं पार्श्वपार्श्विरूपेण पदशः वाक्यशः निरीक्षितुं अनुमन्येरन् I
भाषाणां मध्ये वाक्यरचनायाः भेदान् अवश्यम् अनुभवितुं छात्राणां सहायतार्थं तानि घटितानि सन्ति I
अस्य प्रतियोगिकशिक्षणस्य च शब्दसङ्ग्रहस्य निर्माणप्रक्रियायाः च शक्तिविषये तानि परिज्ञानं प्रददति I
अन्ततः जालस्थानं युगपद् पञ्चभाषाः शिक्षयमाणौ द्वौ आदर्शपाठौ उपहरति I
विस्तारार्थं उपगच्छतु www.multilanguaging.org.
बहुभाषाप्रयोगपद्धतेः सम्भाव्ययोग्यतां द्रष्टुम्, उदहरणार्थं, यूरोपखण्डस्य सप्तभाषाणां शिक्षणार्थं/अध्ययनार्थं, यूरोपियन्.मल्टिलाङ्ग्वेजिङ्ग्.काम् (european.multilanguaging.org) इति सम्बद्धजालस्थानम् अभ्यागच्छतु I

अनेकभाषाणाम् अध्ययनं छात्राणां चिन्तनशक्तिम् अभिवर्धयति I
अन्येषु पाठ्यवस्तुषु प्रशस्तप्रकारेण आचरितुं तत् तेषां सहायतां कुर्यात् I
तत् आल्झैमररोगस्य अभिक्रमं विलम्बयेत् (सः मस्तिष्कव्याधिः यः क्रमशः जनस्य स्मरणशक्तिं चिन्तनकौशलं च उपहन्ति यावत् जनः वयोधिकः भवति) यावत्सङ्ख्यकाः भाषाः व्यक्तिः जानाति तत्तुल्यरूपेण अभिक्रमः अपि अपरकाले भवेत् I
तत् भाविवृद्धनागरिकाणां कृते आल्झैमररोगस्य अनिवार्यतायाः विरुद्धं अभिरक्षारूपेण परिचरति I

अग्रे गत्वा उचितपाठ्यपुस्तकानां रचनायाः आवश्यकता अस्ति I
एषा बाह्यतः अनुदाननिधेः साहाय्यम् अपेक्षते I
समुचितेभ्यः व्यक्तिभ्यः संस्थाभ्यः निगमेभ्यः च ते सार्वकारीयाः भवन्तु उत वैयक्तिकाः एषा सहकारितां सहायतां च अपि अपेक्षते I
पाठ्यपुस्तकानि (अन्या च साधनसामग्री) तथा परिकल्पितानि प्रचिन्तितानि च भविष्यन्ति यथा तानि शिथिरतां प्रददति I
एतत् अध्ययनार्थं पञ्चभाषाणां (तेलुगु हिन्दी आङ्ग्लं उर्दू संस्कृतं च ) उपसंयोगानां अथवा उपविभागानां वरणे साहाय्यं करिष्यति I
ते मुद्रितरूपेण जालाधारितरूपेण च उभयत्र प्राप्याः भविष्यन्ति I
संरूपं तथा विरचितं शिथिरं च भविष्यति यथा सामग्र्यः कक्षशिक्षार्थं च आसक्तव्यक्तिभिः अध्ययनगणैः वा प्रज्ञानसञ्चयस्य निर्माणाय प्रौढशिक्षार्थं च समम् उपयुक्ताः भवेयुः I
बहूपयोगानां पाठ्यपुस्तकानां रचनाविषये निर्णयाः/अधिकमानानि यथायोग्यम् अनेकैः अंशभागिभिः स्वप्राधन्यतानां अपेक्षानुसारं दत्तेन निवेशेन नीयमानाः भविष्यन्ति I
तत्र निधिप्रदाननिगमाः सार्वकारिकाः संस्थाः शिक्षकाः च अन्तर्गताः भवन्ति I

डाक्टर् शेषी महोदयस्य बहुभाषाप्रयोगस्य कृते अन्ताराष्ट्रियकेन्द्रं च बहुभाषाप्रयोगस्य कृते शेषी विद्याविहारः च युगपद् निष्पत्तिपूर्वं सभोगं च अनेकभाषाणां शिक्षणं अध्ययनं च प्रवर्तयितुं निर्मितौ आस्ताम् I
तौ भारतस्य भाषिकं सांस्कृतिकं अन्ततः च राष्ट्रीयं संयोजनम् अग्रे नयतः इति आशंसितम् अस्ति I
वैविध्यम् अस्माकं परम्परा अस्ति I

###
यदि भवान् अस्मिन् विषये अधिकसूचनाम् इच्छति स्वप्रश्नानाम् उत्तराणि च इच्छति तर्हि कृपया उपगच्छतु www.multilanguaging.org, बीरेल्लि शेषी एम् डि महोदयं (310)971-1810 इत्यत्र आह्वयतु अथवा वैद्युतकपत्रं bseshi@multilanguaging.org अथवा bseshi@outlook.com इति सङ्केते लिखतु I