"स्वभाषां परिवर्तयसि चेत् स्वविचाराः परिवर्तन्ते।"
कार्ल आल्ब्रेक्ट

बीरेल्लि शेषि, एम.डी.

पठितुः कृते टिप्पणी

प्रिय पठितः –

अस्मिन् जालस्थाने (वेब्सैट्) उपहृतान् नानाप्रलेखान् भवान् पठितवान् इति धन्यवादः I
भवान् यान् कान् च दोषान् पश्येत् तान् मह्यं निवेदयतु इति अहं प्रार्थये येन तान् संशोधयितुं शक्यते I

आङ्ग्लभाषायाः मूलप्रलेखानाम् अनुवादाः तेलुगु हिन्दी उर्दू संस्कृतं च इति भाषासु अनुवादवृत्तिनिगमैः सेवार्थं शुल्कम् इत्याधारे प्रकल्पितैः देशीयैः/वृत्तिमद्भिः निपुणैः कृताः I
अनुवादकाः मत्कृते अनामकाः सन्ति I
ते यथार्थान् प्रसङ्गानुसारं सार्थान् च अनुवादान् तथा च यथायोगेन स्वतन्त्रान् वाक्यशः पदशः च अनुवादान् कल्पयितुं निर्दिष्टाः आसन् I
अयम् उद्देशः सम्प्राप्तः इति आशंसितम् अस्ति I
अनुवादकानां निगमकर्मचारिणां च कृते तेषां स्थिरायाः सहायतायाः श्रद्धायाः च प्रदर्शनार्थं मम धन्यवादाः देयाः I
ये के अपि अशुद्धानुवादाः च/अथवा अविद्यमानाः अनुवादाः शेषाः तेषां कृते अहं सम्पूर्णम् उत्तरदायित्वं स्वीकरोमि I
या कापि बाधा समाचरणैः च/अथवा परिलोपैः कृता भवेत् तद्विषये अहं भवतः अवगमं प्रार्थये I
भवान् यः पठिता वरः अंशदाता भवितुं शक्नोति यदि भवान् तादृशाः समस्याः मम अवधानार्थं आनयेत् कृपया तथा कर्तुं मा आशङ्कताम् I
भवतः सहायतार्थं प्रागेव भवते धन्यवादाः I

सर्वभावेन,

बीरेल्लि शेषी एम् डि
feedback@multilanguaging.org