"स्वभाषां परिवर्तयसि चेत् स्वविचाराः परिवर्तन्ते।"
कार्ल आल्ब्रेक्ट

बीरेल्लि शेषि, एम.डी.

प्रदानकार्थम् अभ्यर्थना

बहुभाषाप्रयोगः – अनेकभाषाणां सङ्गामिशिक्षणार्थम् एकः प्रस्तावः

प्रियभाविदातः!

अनेकभाषाणां सङ्गामिनः अथवा युगपद् शिक्षणस्य भावनां वर्धयितुम् अहं वित्तपोषम् अभियाचे I

"बहुभाषाप्रयोगः" एकः नवीनः बहुभाषी अथवा अनेकभाषी शिक्षाप्रस्तावः यः अनेकभाषाणां युगपद् अध्ययनं समर्थी करोति I
इदानीं पञ्चभाषाः कथं युगपद् पठनीयाः इति अयं प्रदर्शयति I
तिसॄणाम् अखिलभारतीयभाषाणाम् (हिन्दी, उर्दू, संस्कृतं च) एकस्य अन्ताराष्ट्रियभाषायाः (आङ्ग्लम्) एकस्य च प्रादेशिकभाषायाः (तेलुगु) अध्ययनविषये अयम् प्रयुक्तः अस्ति I
सर्वाः भाषाः अपि प्रथमवर्गतः (कक्ष्या अथवा कक्षा) आरभन्ते I
("वर्गः" "कक्ष्या" "कक्षा" च इति शब्दाः विपर्ययेण प्रयुक्ताः सन्ति I)
कापि अन्या प्रादेशिकभाषा तेलुगुभाषास्थाने संस्थापिता भवेत् I
एषः प्रस्तावः भारतस्य विशेषस्थित्याः समुद्भूतः I

अस्य प्रस्तावस्य द्वौ भागौ स्तः, उभौ अपि नवीनौ –

a) उद्देशः – पञ्चभाषाणां शिक्षणम्/अध्ययनम्,
b) पद्धतिः – तस्य उद्देशस्य प्राप्त्यर्थम्

भाषाणां सङ्ख्या न २, ३, अथवा ४ – सा ५ अस्ति I
तस्याः सङ्ख्यायाः मूलं भारतस्य राष्ट्रियैकीकरणस्य तस्य च आपार्श्वान्तरात् भाषाणां समानतायाः च प्राप्तेः इच्छायाम् अस्ति I

पञ्चभाषाणाम् अध्ययनं प्रस्तुतया "सङ्गामिन्या/युगपद्" पद्धत्या वा अथवा वर्तमानया "अनुपूर्वया" पद्धत्या वा साधकतरम् इति निर्धारणीयं तिष्ठति I
तत् निर्धारणं वैरुजालयपरीक्षापरिसरतुल्यस्य परिसरस्य उपयोगेन कर्तव्यं यत्र गवेषकाः यत्समये नवीनवैद्योपचारः परीक्षितः भवति तदैव तस्य क्षेम्यतायाः फलवत्त्वस्य च मूल्याङ्कनं कुर्युः I

एषः विचारः अनायासेन अवगम्यानां त्रिंशतः (30) अधिकानां प्रश्नोत्तराणाम् आधारेण उपस्कृतः I
युगपद्/सहसम्बद्धं चिन्तनं सुकरं कर्तुम् एकस्य प्रदत्तप्रलेखस्य स्वतन्त्रं, वक्यशः, पञ्चवाक्यशः, शब्दशः च अनुवादान् प्रदाय एषा पद्धतिः दर्शिता I
आशंसितम् अस्ति यत् इदं जालस्थानम् अभ्यागत्य एतस्य प्रस्तावस्य मूल्याङ्कनं कर्तुम् एषः परिलेखः कञ्चन बन्धं यच्छेत् इति I

indian.multilanguaging.org

यथा एतत् सम्बद्धजालस्थानम् अभ्यागत्य भवान् स्वयमेव निर्णेतुम् अर्हति एषा पद्धतिः सामान्यपरिसरे विश्वस्य सर्वभाषाभ्यः प्रयुज्या भवति I

european.multilanguaging.org

एतत् अनुपूरकजालस्थानं यूरोपखण्डस्य सप्तभाषाणां – आङ्ग्लं, जेर्मन्, फ्रेञ्च्, स्पानिश्, इटालियन्, लाटिन्, ग्रीक् च इति एतासु सर्वासाम् अथवा एकस्य वाञ्छितोपसमवायस्य – सङ्गामिरीत्या शिक्षणस्य/अध्ययनस्य विषये बहुभाषाप्रयोगपद्धतेः सम्भाव्यप्रयुज्यताम् अन्विष्यति I
एतां भावनां भाषाणां कस्यापि समवायस्य कृते अथवा कस्यापि देशस्य भाषाणां कृते विस्तारयितुं शक्यते I
विश्वे अनेके देशाः आधिकारिकरूपेण वा न वा द्विभाषान्विताः अथवा बहुभाषान्विताः सन्ति I
यथावितर्कितं तादृशः प्रत्येकं देशः अथवा प्रदेशः भाषिकविभेदस्य केनापि मात्रेण उपप्लुतं भवति I
विश्वे प्रदत्तदेशार्थम् अथवा प्रदत्तप्रदेशार्थं यथावाञ्छितम् अथवा यथाकार्यं भाषाणां समवायं शिक्षयितुं बहुभाषाप्रयोगपद्धतिः प्रायेण उपयोगिनी भविष्यति I

एकैकभाषायाः तस्याः वर्णमालायाः च शिक्षणार्थं अनेकाः पद्धतयः विद्यन्ते I
तथापि यथाज्ञानं न सा पद्धतिः विद्यते या उदाहरणार्थं पञ्चभाषाः अथवा सप्तभाषाः एकत्र सहसम्बद्धप्रकारेण सङ्घटितप्रकारेण च शिक्षयति I
एषः मम पक्षः यत् अध्येतृभ्यः – बालेभ्यः च प्रौढेभ्यः च समं – आन्वयिकम् अध्ययनं चिन्तनस्य नवीनकौशलगणं/नवीनशक्तिं नवीनसौख्यं च ददाति इति I
मम ज्ञानानुसारम् अनेकभाषाणां युगपद् शिक्षणार्थं/अध्ययनार्थं रचितः एषः प्रस्तावः स्वरूपेण प्रसरेण सम्भाव्यप्रभावेण च विपरिणामकारी अस्ति I
भाषाणां शिक्षणार्थं अनेन नवीनशैक्षिकनिदर्शनम् अथवा नवीनशैक्षिकविधिः सञ्जायते इति अपेक्षितम् अस्ति I

मम सङ्क्षिप्तं व्यक्तिगतं व्यावसायिकं च जीवनचरितं प्रदातुम् अहम् इच्छामि यत् च indian.multilanguaging.org  इत्यत्र "जीवनचरितानि" इति शीर्षकस्य अधः प्रतरं विस्तारितम् अस्ति I
अहं निदनप्रचरितः भूतपूर्वः महाविद्यालयसम्बद्धः चिकित्सकः चिकित्साशिक्षकरुपेण जीवचिकित्सागवेषकरूपेण च क्रियावन् अस्मि I
भारतस्य हैदराबादनगरे स्थितस्य ओस्मानिया वैद्यकीयशालायाः अहम् स्नातकः चिकित्साशास्त्रे विश्वविद्यालयस्य स्वर्णपदकविजेता तदनन्तरं भरते बेङ्गलूरुनगरे भरतीयविज्ञानसंस्थायां त्रिवर्षपर्यन्तं जीवरसायने संशोधकच्छात्रः भूत्वा ततः परं अमेरिकादेशं (यू एस् ए) गतवान् तत्र येल् विश्वविद्यालये निदानविषये स्नतकोत्तराध्ययनं समाप्तवान् I
न्यू यार्क् नगरे रोचेस्टेर् विश्वविद्यालये च दक्षिणफ्लोरिडा विश्वविद्यालये (यू एस् एफ्) च लास् एञ्जेलेस् नगरे कलिफोर्निया विश्वविद्यलये (यू सी एल् ए) च अहं प्राध्यापकपदं धारितवान् I
अहं "स्टेम् कोशा" इत्यस्य जीवशास्त्रस्य प्रोभूजिनशास्त्रस्य च क्षेत्रयोः राष्ट्रियस्वास्थ्यसंस्थाभिः (नाशनल् इन्स्टिट्यूट्स् ओफ् हेल्त्) निधिप्रदत्तः प्रधानगवेषकः आसम् I

पाठकानुकूलानि प्रश्नोत्तराणि भवान् समीक्षताम् इत्यपि अहम् अभ्यर्थयिष्ये I
तानि भवते अस्य प्रकल्पस्य प्रवर्तकानां प्रेरणाबलानां परिज्ञानं प्रयच्छन्ति I
यस्मिन् विविधतापूर्णे समाजे वयं वसामः सः मया उपकर्तव्यः इति औत्सुक्येन अहं सदा प्रेरितः I
भवान् प्रष्टुं अर्हति यत् अहं किमर्थं चिकित्सातः/जीवशास्त्रतः भाषाशिक्षणपद्धतीनां गवेषणं प्रति मम व्यवसायम् अन्यथयामि इति I
प्रौढशालायाम् अध्ययनकालात् आरभ्य भाषाः प्रति मम प्रबलानुरागः आसीत् अहं च तम् अविरतं पुष्टवान् अस्मि I
अस्य क्षेत्रस्य विषये अहं बहिर्भवः मम पृष्ठभूमिः च विविधा इति तस्मात् अहम् एतस्मै प्रकल्पाय नवीनबलम् आनयामि एतत् च मां नूतनव्यवहारं स्थापयितुम् अनुजानाति I

पाठानां वरणार्थं अनुपूरकसमग्रीणां रचनार्थं च विद्यमानः प्रस्तावः मार्गदर्शकसिद्धान्तान् प्रयच्छति I
अस्य प्रस्तावस्य अनेकाकाराणां तत्सम्बद्धविषयाणां च सविस्तरव्याख्याः पाठकानुकूले "प्रश्नः उत्तरं च" इति संरुपे प्रदत्ताः सन्ति I
ताः अस्य प्रस्तावस्य व्यापकसमीक्षां कल्पयन्ति I
इदं जालस्थानम् एतान् प्रलेखान् सर्वासु पञ्चभाषासु – आङ्ग्लं तेलुगु हिन्दी उर्दू संस्कृतं च इत्येतासु – उपहरति येन ते एतासु भाषासु कस्याश्चन अपि भाषायाः वक्तृभ्यः उपलभ्याः भवन्ति I
अग्रे गत्वा शिशुविहारस्थबालान् पञ्चभिन्नभाषावर्णमालाः च प्रथमतः दशमपर्यन्तं तत्तद्वर्गबालकान् पञ्चभिन्नभाषापाठान् च सङ्गामिप्रकारेण शिक्षयितुं च उचितपाठ्यपुस्तकानां उपकरणानां च रचनायाः आवश्यकता अस्ति I

अयं प्रस्तावः वैज्ञानिकपरीक्षणस्य भावनया परिकल्पितः आसीत् I
अस्य प्रस्तावस्य साधकतायाः परीक्षणं निर्धारणं च शेषकर्तव्यम् अस्ति I
प्रथमम् उचितपाठ्यपुस्तकानि निर्मातव्यानि – यद्यपि गवेषणार्थम् एव I
एतत् बाह्यतः अनुदाननिधेः साहाय्यम् अपेक्षते I

इमं प्रकल्पम् अग्रिमस्तरं नेतुं भवतः साहाय्यं समर्थनं च अहम् अपेक्षे I
भवतः धनांशदानानि कृतज्ञतापूर्वकं बहुमतानि भविष्यन्ति I
पूर्वमेव भवते बहुधन्यवादाः I

सर्वभावेन,

बीरेल्लि शेषी, एम.डी.
BSeshi@multilanguaging.org
BSeshi@outlook.com




डाक्टर् शेषी-महोदयस्य बहु-भाषाप्रयोगस्य कृते अन्ताराष्ट्रियं केन्द्रं विद्याविहारः च संसर्गः एका यू एस् अकरा 501(c)3 अलाभदायिका संस्था अस्ति (विशेषकरसङ्ख्या 85-0932762) I
सर्वाणि प्रदानकानि यथानियमानुज्ञानं करार्थं व्यवकलनयोग्यानि भवन्ति I