"स्वभाषां परिवर्तयसि चेत् स्वविचाराः परिवर्तन्ते।"
कार्ल आल्ब्रेक्ट

बीरेल्लि शेषि, एम.डी.

प्रप्रथमं मां पठतु

एषां प्रलेखानां, तेषाम् अनुवादानां च विषये विवरणात्मिका टिप्पणी

बीरेल्लि शेषी, एम.डी.
BSeshi@multilanguaging.org
BSeshi@outlook.com

अत्र सानुवादं योजिताः प्रलेखाः एवं सन्ति:
DOC१ – स्थापकस्य, अध्यक्षस्य च सन्देशः
DOC२ – आधेयं, पाठ्यविषयः पाठ्यक्रमः च
DOC३ – जीवनचरितानि
DOC४ – बहुलम् अर्थिताः प्रश्नाः(FAQs) उत्तराणि च, प्रप्रथमं मां पठतु, अन्ते मां पठतु – अग्रे किम्? च

डाक्टर् शेषी मूलतया इमान् प्रलेखान् आङ्ग्लभाषया अलिखत् ।
ते देशीयैः व्यावसायिकैः/विशेषज्ञैः तेलुगु, हिन्दी, उर्दू, संस्कृतं च इति चतसृषु भाषासु अनुवादिताः सन्ति ।

प्रकल्पस्य प्रलेखानाम् अनुवादाः त्रिभिः भिन्नैः प्रकारैः प्रदत्ताः सन्ति :

i) सततम् एकस्यामेव भाषायाम् अथवा स्वतन्त्रे प्रारूपे (DOCs १-४):

  • MS Word उपयोगेन एताः पाठ्य-सञ्चिकाः सज्जीकृताः सन्ति ।
  • तत्र एकल-लक्ष्य-भाषायाः अनुवादस्य पाठ्यं मूलभाषाम्/प्रभवभाषाम् (आङ्ग्लभाषाम्) अथवा लक्ष्यभाषायाः लिप्यन्तरणं विना प्रदत्तम् अस्ति ।
  • प्रत्येकम् आङ्ग्लभाषायाः मूल-प्रलेखाय तेलुगु, हिन्दी, उर्दू, संस्कृतं च भाषाभ्यः पृथक्स्थितः अनुवादितः प्रलेखः अस्ति I

ii) वाक्यशः (त्रैतम्) प्रारूपम् (DOCs १-४):

  • एताः पाठ्यसञ्चिकाः अपि MS Word उपयोगेन सज्जीकृताः सन्ति ।
  • प्रत्येकम् आङ्ग्लभाषायाः मूलप्रलेखाय तेलुगु, हिन्दी, उर्दू, संस्कृतं च भाषाभ्यः पृथक्स्थितः अनुवादितः प्रलेखः अस्ति I
  • परं ते वाक्यशः व्यवस्थिताः सन्ति, ते च मूलभाषां/प्रभवभाषां (आङ्ग्लभाषां), लक्ष्यभाषायाः लिप्यन्तरणं च प्रयच्छन्ति ।
  • उदाहरणत्वेन संस्कृतस्य प्रलेखः धरति,
    • मूलवाक्यम् आङ्ग्लभाषायां ।
    • देवनागरीलिप्यां संस्कृतानुवादः ।
    • लेटिन-वर्णमालायां संस्कृतवाक्यस्य लिप्यन्तरम् ।
  • प्रत्येकं त्रैतम् एकल-रिक्तस्थान-पङ्क्तिना विभक्तं भवति; अनुच्छेदानां अन्ताः ¶ इत्यनेन अनुच्छेदचिह्नेन चिह्निताः भवन्ति ।

iii) विस्तारपत्राणाम् उपयोगेन शब्दशः प्रारूपं (DOCs १, २, ४ च):

  • उक्तात् भिन्नतया एताः विस्तारपत्राणां सञ्चिकाः MS Excel उपयोगेन सज्जीकृताः सन्ति ।
  • प्रत्येकं मूलप्रलेखाय, तत्र केवलम् एकः एव प्रलेखः भवति, यत्र मूलभाषा, सम्बद्धभाषाणां स्वेषु स्वेषु लिपिषु अनुवादितानां सर्वासां चतुर्णां भाषाणां शब्दशः अनुवादाः, लेटिन-वर्णमालायां तेषां चत्वारि सम्बद्धानि लिप्यन्तरणानि च धृताः सन्ति ।
  • एषः प्रलेखः वाक्यशः अनुवादानुसारं व्यवस्थापितः भवति ।
  • एवं विस्तापपत्रे प्रत्येकं वाक्याय समावेशितया रिक्त-पङ्क्त्या अनुगताः नव निवेशाः/पङ्क्तयः भवन्ति ।

एतत् सम्भवम् अस्ति यत्, एकस्याः भाषायाः एकस्य शब्दस्य कृते (उदाहरणत्वेन, आङ्ग्लभाषायाः "water" कृते) अन्यभाषायां द्वौ तुल्यं समुचितौ शब्दौ भवेताम् (अत्र "जलम्", "उदकम्" च संस्कृते) ।
तथैव आङ्ग्लभाषायाः "hoped" शब्दाय उर्दूभाषायां द्वे तुल्यं समुचिते उक्ती भवेताम् ("tawaqqo ki jati", "umeed ki jati" च) ।
तत्सम्बद्धमेव आङ्ग्लभाषायाः "providence" सदृशाय शब्दाय कदाचित् तेलुगुभाषायां ("bhagavanthudu", "devudu" च), हिन्दीभाषायां ("ishwar", "bhagavaan" च) च द्वौ तुल्यं समुचितौ शब्दौ भवेताम् ।
यदि एताभ्यः एकस्याः भाषायाः आङ्ग्लभाषायाम् अनुवादः भवेत्, तर्हि समाना समस्या उद्भवेत् – उदाहरणत्वेन – "wished," "longed", "desired" च इत्येते "hoped" शब्दस्य विविधानि समुचितानि पर्यायपदानि सन्ति ।
एतद्ध्यात्वा प्रत्येकं भाषायां प्रत्येकं वाक्ये एकस्मै प्रदत्तशब्दाय सर्वेषु त्रिषु प्रारूपेषु अनुवादानां अविरोधं प्रसङ्गानुसारं रक्षितुं अवधानं दत्तम् अस्ति पुनरीक्षणं च कृतम् अस्ति I
केषाञ्चन शब्दानाम् एकाधिकाः अर्थाः भवन्ति इति विषयः वर्गे चर्चितः भविष्यति I

एतासु कासुचित् अथवा सर्वासु भाषासु (तेलुगु, हिन्दी, उर्दू, संस्कृतं च मध्ये) अनेके सामान्याः शब्दाः अथवा धातवः विद्यमानाः सन्ति, परन्तु तेषां भिन्नलिपित्वात् लिखितरूपेण स्पष्टं न भवति ।
लिप्यन्तरणस्य उपयोगस्य उद्देश्यम् एवम् अस्ति:

  1. तेषां मूलभूतानां सम्बन्धानां स्पष्टीकरणम्।
  2. ये जनाः एताभ्यः लिपिभ्यः अनभिज्ञाः सन्ति ते अपि लक्षितभाषायाः अनुबोधम् अनुभवितुं, प्रस्तुतायाः तुलनात्मिकायाः भाषा-शिक्षणस्य पद्धत्याः प्रशस्तं विचारं प्रचिन्तयितुं च तेषां समर्थीकरणम् ।
  3. अन्ततो जालस्थाने एतस्मै प्रस्तावाय व्यापकतमानां पाठकानां प्राप्तिः स्यात्, येन एतस्य
    सम्पूर्णतया मूल्याङ्कनं भवितुं शक्यते ।

"अस्माकं भाषाः" विषयस्य भागत्वेन कक्षायाः पाठ्यपुस्तकस्य पाठानाम् आलोचनकाले:

  1. तत्र लिप्यन्तरणस्य कापि आवश्यकता न भविष्यति, यतः पूर्वशालायाम् अथवा बालशालायां इतरेतरलिप्यः विद्यार्थिभिः पठनीयाः भविष्यन्ति ।
  2. कक्षायाः पुस्तकं क्रमशः पञ्चवाक्यशः पञ्चवाक्यानां प्रारूपम् अनुसरतु अथवा तेलुगु, हिन्दी, उर्दू, संस्कृतं च भाषया सम्पूर्णपाठेन यथाक्रमम् अनुसृतस्य आङ्ग्लभाषायाः सम्पूर्णपाठस्य प्रारूपम् अनुसरतु I
  3. परं, शब्दशः प्रारूपं यत् "शब्दपुस्तिका" इति वक्तव्यं, तत् अवश्यं पञ्चवाक्यशः पञ्चवाक्यानां प्रारूपस्य अनुसरणं करोति, यतः विद्यार्थिनः पार्श्वसंहितरूपेण शब्दशः वाक्यशः च पञ्चभाषाणां आपार्श्वान्तरात् निरीक्षणे क्षमाः करणीयाः इति तस्य उद्देशः अस्ति ।

अग्रे अनुभूतिः भवेत् यत्, कक्षायाः पाठ्यक्रमस्य पाठेभ्यः विपरीतं DOCs १-४ आवश्यकरूपेण परिणताः प्रलेखाः सन्ति, ये मुख्यतया जनकजननीभ्यः, शिक्षकेभ्यः नीतिनिर्णयकर्तृभ्यः, अनुरागयुक्तेभ्यः नागरिकेभ्यः च सन्ति ।

शब्दपुस्तिकायाः विस्तारपत्रप्रारूपे विस्तृतानां वाक्यानां पठनं दुःसाध्यं भवितुं शक्यते ।
अपि च, मानानुवादे (पञ्चवाक्यप्रारूपे अथवा सम्पूर्णपाठस्य प्रारूपे) स्पष्टशब्दार्थं शब्दशः अनुवाददर्शनाय शब्दपुस्तिकायाः पठनाय कस्माद् अपि जनात् आशंसितं नास्ति ।
तथापि, एतेषां प्रलेखानाम् उदाहरणत्वेन सफलम् उपयोगः प्रवर्तमानः अस्ति न केवलं प्रस्तावस्य आवश्यकीनां मूलभूतानां भावनानां विवरणं कर्तुम्, अपि तु यथा ताः निरीक्षिताः सन्ति, तथा नवीनायाः भाषायाः पठनपद्धत्याः सीमाः परीक्षितुं, सावधानतया ताः पत्रे आरोपयितुं च ।
आशा क्रियते यत्, विद्यार्थिभ्यः कक्षायाः पाठ्यपुस्तकस्य पाठानां सज्जीकरणस्य समये, यत्र सामान्यानि, लघूनि च वाक्यानि आदर्शत्वेन भवितुम् अर्हन्ति, एतानि परिज्ञानानि उपयोगीनि भविष्यन्ति परन्तु तत् तु प्रकृतवर्गस्य स्तरम् अवलम्बते ।
एतत् विश्वासेन वक्तुं शक्यते यत्, एषः कश्चन जटिलः महत्त्वपूर्णः च प्रकल्पः अस्ति तथा च एकवारम् एतस्य अनुष्ठानस्य आरम्भोत्तरं आगामिभ्यः प्रतिक्रियाभ्यः अध्ययनं कर्तुं, विकासं साधयितुं च भूरिविषयाः भविष्यन्ति इति I