"स्वभाषां परिवर्तयसि चेत् स्वविचाराः परिवर्तन्ते।"
कार्ल आल्ब्रेक्ट

बीरेल्लि शेषि, एम.डी.

अन्ते मां पठतु—अग्रे किम् ?

प्रिय पाठक:

अहं आशां करोमि यत्, एतस्य जालस्थानस्य सञ्चरणं भवतः कृते रसप्रदः सूचनाप्रदः च अनुभवः भूतः इति ।
अहं आशां करोमि यत्, भवतः पार्श्वे बहुलम् अर्थिताः प्रश्नाः उत्तराणि च इत्येतत्सहितम् आरोपितानां प्रलेखानां समीक्षायै अवसरः तान् प्रति विचिन्तयितुं च किञ्चित्कालः आसीत् इति ।
सङ्गामिनः बहुभाषाप्रयोगस्य शिक्षायाः प्रस्तुता भावना अतीव नवीना, भिन्ना च अस्ति ।
प्रायेण भवतां पार्श्वे अद्यापि कतिचन अदत्तोत्तराः चिन्ताः अथवा प्रश्नाः वा स्युः ।
अधोदत्ते वैद्युतकपत्रसङ्केते मां प्रति सङ्कोचं विना कृपया लिखतु ।
पुनः अहं आशां करोमि यत्, एतस्य प्रस्तावस्य कल्पना वैज्ञानिकपरीक्षणस्य भावे कृता आसीत् इति भवान् लक्षितवान् इति ।
प्रस्तावस्य साधकतायाः परीक्षणं निर्धारणं च अद्यापि अवशिष्टम् अस्ति ।
यद्यपि भिन्नाः भाषाः भिन्नकक्षास्तरेषु पाठ्यविषये प्रवेशिताः भवन्ति, तथापि भिन्नेन आधेयेन सह त्रिभाषापाठनं वर्तमानपद्धत्याम् आदर्शरूपम् अस्ति ।
प्रष्टुम् एकः प्रश्नः अस्ति यत्, पूर्वस्थापनीयानां परिमेयपरिणामपरिमितीनाम् अपेक्षया किं साधकतरम् अस्ति – समानेन आधेयेन सह त्रिभाषापाठनं अथवा भिन्नेन आधेयेन सह ?
४ अथवा ५ भाषाणां सङ्गामिशिक्षणं परीक्षणस्य अग्रिमं स्तरं भवति ।
एतत् त्रिभाषाप्रयोगे विद्यार्थिनां साधनस्य परिणाममम् अवलम्ब्य व्यवसितं भविष्यति ।
अनेकेषां प्रयोगात्मकानां विधानानां कल्पना भवितुं शक्नोति ।
परीक्षणस्य विधानं किमपि स्यात्, उपयुक्तपाठ्यपुस्तकानां निर्माणं प्रप्रथमा आवश्यकता अस्ति ।
ततः असन्दिग्धम् एतत् बाह्यानुदाननिधिसहायताम् अपेक्षते उपयुक्तेभ्यः च सर्वकारीयेभ्यः अथवा वैयक्तिकेभः जनेभ्यः संस्थाभ्यः निगमेभ्यः च सहकारितां सहयोगं च अपेक्षते ।
पाठ्यपुस्तकानि (अन्या च साधनसामग्री) सञ्चिन्तितानि कल्पितानि च भविष्यन्ति, येन अध्ययनार्थं मुद्रितरूपे संयुक्ततया (ओनलाइन) च उभयतः निर्दिष्टानां पञ्चभाषाणां (तेलुगु, हिन्दी, आङ्ग्लं, उर्दू, संस्कृतं च) उपसमवायान्/उपघटकान् चेतुं नाम्यतां दातुं शक्यते ।
यथा कक्षाशिक्षणस्य कृते इच्छुकजनैः अथवा अध्ययनसङ्घैः प्रौढशिक्षायै च ज्ञानात्मकनिधेः निर्माणार्थं समानतया सामग्री उपयुक्ता भवेत्, तथा प्रारूपं व्यवस्थितं, नाम्यं च भविष्यति ।
बहूद्देशीयस्य पाठ्यपुस्तकस्य उत्पादनस्य निर्णयाः/ अधिकमानाः स्वाभाविकतया विविधैः अंशभागिभिः विशेषतया वित्तपोषकसंस्थाभिः, सर्वकारीयनिकायैः, शिक्षकैः च दत्तनिवेशेन तेषां प्राथमिकातानाम् अपेक्षया निर्दिष्टाः भविष्यन्ति ।
एतं प्रकल्पं कृतार्थतां प्रापयितुं लक्ष्येण आवश्यकसमर्थनस्य याचनां समाहारं च प्रति अहं कार्यं करिष्यामि ।
कतिपयशिक्षणसामग्रीणां परिकल्पनायाः अपेक्षया निःसंशयम् एतत् आह्वानप्रदं भविष्यति ।
एतत् विशेषतः सत्यम् अस्ति यतः चतसृषु भिन्नवर्णमालासु/ भिन्नलिपिषु एतत् प्रयुक्तं भवति ।
परन्तु अहं विश्वस्तः अस्मि यत्, एतत् अतिशयेन सम्पाद्यम् अस्ति ।
पाठकानां प्रतिक्रिया सामाजिकतया एनम् उपयोगिनं समारम्भं कर्तुं प्रधानतमं भविष्यति ।
अहं भवतः वचनानां स्वागतं करोमि ।

सस्नेहं शुभकामनाः,

बीरेल्लि शेषी, एम.डी.
feedback@multilanguaging.org