"स्वभाषां परिवर्तयसि चेत् स्वविचाराः परिवर्तन्ते।"
कार्ल आल्ब्रेक्ट

बीरेल्लि शेषि, एम.डी.

आदर्शः पाठः II

भारतस्य सङ्गीतसंस्थानां स्वामिनां कृते निमन्त्रणम्

डाक्टर् शेषी महोदयस्य बहु-भाषाप्रयोगस्य कृते अन्ताराष्ट्रियं केन्द्रम् बहु-भाषाप्रयोगस्य कृते शेषी विद्याविहारः च संसर्गः काचन अलाभदा संस्था अस्ति I
भारतस्य सामान्यनागरिकेभ्यः बहुभाषाप्रयोगस्य शिक्षणविचारं निदर्शयितुं यथोचितं भवेत् तथा अस्यां वेदिकायां वृतान् बालिवुड्/टालिवुड् इत्यस्य गीतशब्दाः सङ्गीतं तेषां गायनं च उपहृत्य वयं प्रसन्नाः भविष्यामः I
ते एतयोः नियमयोः अनुसारम् एव उपहृताः भविष्यन्ति यत् –
a) ते निःशुल्कं प्रदत्ताः भवेयुः च
b) प्रक्रियापथे ये के च अनुवादाः याः काः च इतरेतरमुद्रिकाः मम संस्थया रचिताः भवेयुः ते तत्सर्जनोद्देशम् विहाय वाणिज्यलभार्थं अथवा कस्मैचन अन्योद्देशाय स्वमिभिः नैव प्रयुक्ताः भवेयुः इति स्वामी स्वीकुर्यात् तथा इति I
ये सङ्गीतसंस्थास्वामिनः अस्य प्रकल्पस्य मूल्यं विजानीयुः तस्य समर्थनं च कर्तुं इच्छेयुः एतत् तेषां कृते विवृतं निमन्त्रणम् अस्तिI
अहं तेषां प्रतिवचनम् अभिनन्दामि I
वृताः गीतशब्दाः/श्रव्यम्/दृश्यम् अस्य निमन्त्रणपृष्ठस्य स्थाने अथवा उपरि उपहृताः भविष्यन्ति I
इदम् उपहरणं भारतस्य राष्ट्रियानि चिह्नानि इति विषयकम् "आदर्शः पाठः 1" इत्यस्य – स्वतन्त्रं वाक्यशः पञ्चवाक्यशः शब्दशः च इति अनुवादप्रारूपाणाम् आकृतिम् अनुकरोति तथा च एतत् सर्वासु पञ्चभाषासु अपि ससङ्गीतगायनेन संयुक्तः भविष्यति I
विशेषधन्यवादेन सह सङ्गीतसंस्थास्वमिनः उदारसमर्थनस्य कृतज्ञतापूर्वकस्य अङ्गीकारस्य उपरि स्विकृतिपङ्क्तयः गीतनाम चलच्चित्रं (वर्षः) चलच्चित्रनिर्देशकः गीतकारः गायकः च इति एतान् निगदिष्यन्ति I

सर्वभावेन,

बीरेल्लि शेषी, एम्. डि.
BSeshi@multilanguaging.org
BSeshi@outlook.com