बहुलम् अर्थिताः प्रश्नाः, उत्तराणि च
प्रश्नाः, उत्तराणि च (Q&A)
बीरेल्लि शेषि, एम.डी.
BSeshi@multilanguaging.org
BSeshi@outlook.com
"स्वभाषां परिवर्तयसि चेत् स्वविचाराः परिवर्तन्ते।"
कार्ल आल्ब्रेक्ट
बीरेल्लि शेषि, एम.डी.
बीरेल्लि शेषि, एम.डी.
BSeshi@multilanguaging.org
BSeshi@outlook.com
"सन्देशः" (DOC१), "आधेयं, पाठ्यविषयः, पाठ्यक्रमश्च" (DOC२) च प्रस्तावस्य पृष्ठस्थं मुख्योद्देशं, विस्तृतं विचारं च वर्णयतः ।
बहुलम् अर्थिताः प्रश्नाः विशिष्टानि विवराणि विदधति – यानि प्रस्तावस्य मूलतत्त्वानि ।
बहुलम् अर्थिताः प्रश्नाः पृष्ठभूमिम् अन्तर्भावयित्वा मुख्यतया बहुभाषाप्रयोगस्य उपक्रमं परितः भ्रमन्ति यौ संयुक्तं प्रस्तावस्य व्यापकं चित्रं प्रयच्छतः ।
प्रश्नोत्तराणां प्रारूपं सूचनायाः चयनं, पठनं, अवगमनं च प्रशस्तरूपेण सुकरं करोति ।
लेटिन-वर्णमालायां लिप्यन्तरणं सुकरं कर्तुं प्रत्येकं वाक्यं नवीनपङ्क्त्याम् आरब्धम् अस्ति ।
विषयेऽस्मिन् अत्यधिका सामान्या परिभाषा बहुभाषाज्ञः अथवा अनेकभाषाज्ञः इति अस्ति ।
अहं अनेकभाषाणां सहसम्बद्धस्य सङ्गामिनः अथवा युगपद् शिक्षणस्य/अध्ययनस्य च व्यापकम् अर्थं व्यक्तं कर्तुं "बहुभाषाप्रयोगः" इति शब्दस्य प्रयोगं कृतवान् ।
भारतस्य तिसॄणां राष्ट्रियभाषाणां (हिन्दी, संस्कृतं, उर्दू च), एकस्याः अन्ताराष्ट्रियभाषायाः (आङ्ग्लं), एकस्याः प्रादेशिकभाषायाः/स्थानीयभाषायाः च (तेलुगु, या मम मातृभाषा भवति) सर्वासां प्रथमकक्षातः (कक्ष्या अथवा कक्षा) आरभ्य युगपद् पाठनं/पठनं कथं भवेत् इत्यस्य विषये एषः प्रस्तावः अस्ति ।
एतस्य प्रस्तावस्य आधारशिला अस्ति यत्, प्रत्येकं कक्षायां प्रत्येकं पाठस्य आधेयम् अथवा विषयसामग्री सर्वासु पञ्चभाषासु समाना भवेत् । तत्र च तादृशी सामग्री अन्तर्भूता भविष्यति, या सर्वासां पञ्चभाषाणां आदर्शभूता व्यावर्तिका वा भवेत् I
भारतस्य राष्ट्रियम् अथवा भाषिकं एकीकरणं प्राप्तुं वैज्ञानिक्याः, राजनीतिभिन्नायाः, धर्मभिन्नायाः, असैद्धान्तिकायाः, अनिबद्धायाः च पद्धत्याः अन्वेषणस्य मे इच्छा एतस्य प्रस्तावस्य पृष्ठे मुख्यप्रेरणा आसीत् ।
यथा अहं काञ्चन आणविकीं, कोशकीयां जैविकीं वा समस्यां पश्यामि, तथा अहं भारतस्य विविधाः भाषाः अपश्यं ततश्च पूर्णतया अनासक्तभावेन एतस्याः समाधान्वेषणस्य प्रयासम् अकरवम् ।
दार्शनिकैः आभासैः विना प्रकृतेः या विविधता, सामान्यतः जीवनस्य या विविधता, जनानां, तेषाम् आचाराणां च या विविधता तेषां भाषासु संस्कृतिषु च यथा मूर्ता अस्ति, सा रमणीया मनोहरा च अस्ति ।
एतत् इमं प्रश्नम् उत्थापयति यत् किमर्थं वयं विविधतां यथान्यायं न श्लाघयामः ?
वास्तव्येन विविधतां श्लाघयितुम् अन्येषाम् अवगमनं प्रधानतमं भवति ।
अन्यभाषाणाम् अवगमनं तल्लक्ष्यं प्रति अवसरस्य निश्चितं गवाक्षं प्रयच्छति - अत एव एषः प्रकल्पः अस्ति ।
स्वतन्त्रतायाः ७३ वर्षेभ्यः अनन्तरमपि सर्वैः भारतीयैः कस्याः अपि राष्ट्रियभाषायाः अस्वीकारेण भारतस्य भाषाप्रश्नः महत्त्वपूर्णः अस्ति ।
एतादृशस्य बाह्यतः दुःसेव्यस्य प्रश्नस्य उत्तरान्वेषणस्य मे इच्छा द्वाभ्यां कारणाभ्यां समर्थीभूता अभवत् ।
तौ एवम् आस्ताम्:
a) मम जीवनयात्रा, जन्म, पालनं, स्वजीवस्य आरम्भिकाणां ३० वर्षाणां भारते यापनं च ।
b) मम विस्तृता संशोधनस्य पृष्ठभूमिः, विस्तृताः वैद्यकीयशिक्षणस्य अनुभवाः च - विशेषरूपेण मानवस्य अस्थिमज्जायाः सूक्ष्मपर्यावरणीयानां कोशिकानां विषये मम संशोधनं, याः संधारीयाः (सहायक-ऊत्या सह सम्मबद्धम्) यौक्तिकोतितन्तुघटकाः अथवा कोशिकाः उच्यन्ते ।
एताः कोशिकाः जनस्य जीवनपर्यन्तं हीमटोपोयेटिक् (असृक्कर) स्टेम्/काण्डाः वा जन्मदाः वा पुरोगामिन्यः वा कोशिकाः प्रौढरक्तकोशिकाः यथा श्वेत-रक्त-कोशिकाः, शोण-रक्त-कोशिकाः, प्लेटलेट कोशिकाः भवितुं, तासां समर्थनं, शिक्षणं च कुर्वन्ति ।
मया पूर्वं महत्त्वपूर्णं संशोधनं कृतं यत्, अस्थिमज्जायाः संधारीयाः कोशिकाः, यदा निश्चितायां कोशिकासंस्कृतेः परिस्थित्यां विस्तृताः भवन्ति, तदा एकां प्लूरी-विभेदितां (युगपद् बहुविधेषु ऊतिमार्गेषु विभेदितां) मेसेन्कैमल् (यौक्तिकोतिसम्बद्ध) कोशिकां अतन्वन् इति, यत् ताः मेसेन्कैमल् कोशिकानां पञ्चभिन्नप्रकारमयाः (भिन्नतया विभक्ताः) इति दीर्घकालतः धृतायाः लोकरूढायाः मत्याः विपरीतम् आसीत् ।
मम कार्यं एकस्यामेव कोशिकायां अनेकेषां फीनोटैप् इत्येतेषां (बाह्यरूपाणि बाह्याकाराः च यद्वत् मौलिकात् जीनोटैप् इत्यस्मात् अथवा मौलिकायाः आनुवंशिकरचनायाः भिन्नाः) सहवर्त्तनं प्रादर्शयत् - "एका कोशिका विभिन्नैः मुखैः सह ।"
साधारणशब्दः इव श्रुताः संधारीयाः यौक्तिकोतितन्तुघटकाः वास्तव्येन मेसेन्कैमल्-स्टेम-कोशिकाः सिद्धाः जाताः, यासु शरीरस्य विविधाः यौक्तिकाः ऊतीः जनयितुं क्षमता अस्ति, यथा - पेश्याः कोशिकाः, अस्थीनां कोशिकाः, वसायाः कोशिकाः इत्यादिकम् ।
यथा तथा भवतु भिन्नभाषाः एकस्याः एव मानवविचारप्रक्रियायाः भिन्नानां फीनोटैपिक-अभिव्यक्तीनां रूपेण द्रष्टुं शक्यन्ते ।
मम बहुभाषाप्रयोगप्रस्तावस्य, मम प्लूरी-विभेदित-संधार-कोशिकासम्बद्धस्य पूर्वसंशोधनस्य च मध्ये वैचारिकसमानता स्पष्टा अस्ति इति मे आशा ।
मम शोधस्य भागत्वेन शोधमार्गे च यथा महत्त्वपूर्णम् आसीत्, तथा अनेकेषु विश्लेषणात्मकेषु कौशलेषु, कार्यविधिषु, सामान्यमूल्यस्य विचारप्रक्रियासु च अहं अनुभवी अभवं, सः च घनाणुजीवविज्ञानात्, कोशिकाजीवविज्ञानात् च अग्रे विस्तारयितुं शक्यते ।
तत् एतस्य भाषायाः प्रस्तावस्य, सम्भाव्यतया प्रबल-शिक्षण-साधनस्य, शब्दपुस्तिकायाः (बहुलम् अर्थिताः प्रश्नाः ४ मध्ये) च भावनायै मार्गं व्यरचयत् I
उपर्युक्तः उल्लेखः योग्यः भवेत् इति मया चिन्तितं यतः अहं भारते भाषासमस्या इव त्रासजनकसमस्यायाः विधाने यतितुं असम्भाव्यतमः जनः प्रतिभायां परन्तु अहं तां तेन मार्गेण उपगतः यत्र पूर्वं न कदापि पदन्यासं कृतम् I
सङ्क्षेपतः अतीव महत्त्वपूर्णः मूलभूततमः अधिकं निर्णयकः च आशयः यम् अहं स्थापयितुम् इच्छामि, सः अस्ति यत्, प्रचलितपद्धतेः भिन्नभाषासु असमानाधेयस्य अपेक्षया तासु समानाधेयं साधकतरं भवति इति ।
पाठस्य चयनार्थं, शब्दपुस्तिका-सदृश्याः सहायक-सामग्र्याः निर्माणार्थं च अहं मार्गदर्शकसिद्धान्तम् अपि प्रयच्छामि ।
अन्ते अधः प्रश्नानां शृङ्खलायाः उत्तरं दत्त्वा अहं प्रस्तावस्य व्यापकदृष्टिं प्रयच्छामि ।
यद्यपि ML शब्दपुस्तिका इति शब्दप्रयोगः विस्तारपत्रस्य तन्त्रांशस्य कार्यपुस्तिकया तुल्यरूपेण अनुस्वानः, यथा Microsoft Excel, तथापि एषः शब्दप्रयोगः नवीनः अस्ति ।
सः बहुभाषाप्रयोगे यः शब्दप्रयोगः अनेकभाषाणां सहसम्बद्धं सङ्गामि अथवा युगपद् शिक्षणम्/अध्ययनम् इत्यर्थे उपयुक्तः, पाठानां स्वीकरणाय तथा च/ अथवा अभ्यासाय परिकल्पितां नवीनां पद्धतिम् अथवा प्रक्रियां सुप्रकाशं करोति ।
शब्दपुस्तिका मूलभाषायाम् अथवा प्रभवभाषायां - एतस्मिन् उदाहरणे आङ्ग्लभाषायाम् - सम्पूर्णप्रलेखस्य अथवा प्रलेखे एकस्य वाक्यस्य शब्दान् एकस्मिन् विस्तारपत्रे एकलपङ्क्त्यां, एकस्मिन् कोष्ठे एकेन शब्देन सह दर्शयति I
एवं शब्दपुस्तिका द्वयोः प्रारूपयोः निर्मितं भवेत्: प्रतिपङ्क्तौ वाक्यम् अथवा एकस्मिन् विस्तारपुस्तके प्रतिपङ्क्तौ सम्पूर्णः प्रलेखः ।
एतस्याः भावनायाः, तस्याः उपयोगस्य च व्याख्यां कर्तुं आहत्य २३ शब्दसङ्ख्यायुक्तं केवलं चतुर्वाक्यायुक्तं लघुप्रलेखं विचिन्तयतु I
"शुभप्रभातम् ।
विविधता अस्माकं परम्परा अस्ति ।
पञ्च भाषाणां युगपत् अध्ययनं सर्वोत्तमः विचारः अस्ति ।
धूम्रपानं जनस्य स्वास्थ्याय अहितं हानिकरं वा अस्ति I"
"प्रतिपङ्क्तौ वाक्यम्" प्रारूपे, यावत्यः भाषाः सन्ति तावतीनां पङ्क्तीनां खण्डेषु - उदाहरणेऽस्मिन् ५ - वाक्यशः पाठ्यं दर्शयतु, ये खण्डाः रिक्तपङ्क्त्या अनुगताः भवन्ति यथा :
पङ्क्तिः १ (आङ्ग्लम्): शुभप्रभातम् ।
पङ्क्तिः २ (तेलुगु):
पङ्क्तिः ३ (हिन्दी):
पङ्क्तिः ४ (संस्कृतम्):
पङ्क्तिः ५ (उर्दू):
रिक्तम्
पङ्क्तिः ७ (आङ्ग्लम्): विविधता अस्माकं परम्परा अस्ति ।
पङ्क्तिः ८ (तेलुगु):
पङ्क्तिः ९ (हिन्दी):
पङ्क्तिः १० (संस्कृतम्):
पङ्क्तिः ११ (उर्दू):
रिक्तम्
पङ्क्तिः १३ (आङ्ग्लम्): पञ्च भाषाणां युगपत् अध्ययनं सर्वोत्तमः विचारः अस्ति ।
पङ्क्तिः १४ (तेलुगु):
पङ्क्तिः १५ (हिन्दी):
पङ्क्तिः १६ (संस्कृतम्):
पङ्क्तिः १७ (उर्दू):
रिक्तम्
पङ्क्तिः १९ (आङ्ग्लम्): धूम्रपानं जनस्य स्वास्थ्याय अहितं हानिकरं वा अस्ति ।
पङ्क्तिः २० (तेलुगु):
पङ्क्तिः २१ (हिन्दी):
पङ्क्तिः २२ (संस्कृतम्):
पङ्क्तिः २३ (उर्दू):
रिक्तम्
शब्दपुस्तिका प्रायेण प्रबलशिक्षणसाधनत्वेन कार्यं करिष्यत्येव, यतः:
अहं सम्मतः अस्मि ।
अहम् अस्य विचारस्य विषये अतीव ग्रहणशीलः अस्मि यतः उपरि उक्तः संवादात्मकः उपक्रमः मम प्रस्तावः च परस्परं पूर्णतः सङ्गतौ पूरकौ च वर्तेते ।
मम प्रस्तावस्य केन्द्रबिन्दुः पदवाक्यरचनाविज्ञानं प्रति (विशिष्टप्रकारेण शब्दकोशः वाक्यसंरचना च इति उभौ प्रति) अस्ति इति स्पष्टमस्ति परन्तु एतत् संवादात्मकेन उपक्रमेण सह सुन्दरतया संयोक्तुं शक्यते, यत्कृते एतेषां प्रश्नोत्तराणां माध्यमेन मया विचेष्टितम् अस्ति ।
अनेकभाषाणां युगपद् शिक्षणं वर्धयितुं मम प्रस्तुतः उपक्रमः न केवलं पाठ्यतः उच्चारणस्य, दृश्य-श्रव्य-उपकरणानां तत्सदृशानां च प्रौद्योगिकीनाम् उपयोगस्य समर्थनं करोति, अपि तु शालायाः नाटके विद्यार्थिभिः बहुभाषि-भूमिकायाः अभिनयनस्य अपि समर्थनं करोति, तथा च बालीवुड्/टालिवुड् इत्यस्य सुप्रसिद्धस्य गायननृत्यस्य अपि यद्यपि अनौपचारिकरूपेण उपयोगस्य समर्थनं करोति तत् कियन्मात्रम् अपि अपरम्परागतं भवतु ।
अनेके सन्ति:
तत् हस्तलाघवं नास्ति ।
अहं तां विशालचित्रे यथा पश्यामि तथा वदामि ।
मम "सन्देशः" इत्यस्य प्रदर्शने एताः संवेदनाः अहम् अवगच्छामि ।
तत् कियन्मात्रम् अपि सूक्ष्मं जटिलं वा स्यात् परन्तु तत् तु सत्यम् I
निष्पक्षाय पर्यवेक्षकाय हिन्दी, संस्कृतं, उर्दू च सर्वाः तिस्रः अपि भाषाः भौगोलिकरीत्या तासां व्याप्तेः स्तरस्य विस्तारं गभीरतां च आधृत्य च/अथवा अन्यासां प्रादेशिकभाषाणां/स्थानीयभाषाणां आधाररूपेण राष्ट्रभाषापदाय योग्याः भवेयुः ।
भारतीयसन्दर्भे "राष्ट्रिय" इति शब्दस्य एका परिभाषा अखिलभारतीयत्वम् इति भवति ।
सर्वाः तिस्रः भाषाः अखिलभारतीयत्वस्य परिभाषानुगुणं योग्याः भवेयुः ; हिन्दी, उर्दू च अनेकेषु भिन्नेषु राज्येषु सम्भाषणभाषे, संस्कृतं च हिन्द्याः तथा कतिपयानाम् अन्यराज्यानां भाषाणां आधारशिला अस्ति ।
यद्यपि आङ्ग्लम् अन्ताराष्ट्रिया भाषा अस्ति, तथापि यथा प्रतिरूपपुस्तकानां मुखपृष्ठेषु दृश्यते, तथा एकीकरणस्य भावनां परिकल्प्य अहं नूनं ताम् "अस्माकं भाषाः” इत्येतासाम् अन्यतमायाः रूपेण प्रददामि ।
उपलक्षयतु यत्, "वैदेशिकी" भाषा इति अहम् आङ्ग्लं न सम्बोधितवान् ।
वास्तव्येन मम सन्देशे अहं भारतीयभाषाभिः सह तस्याः सम्बन्धं न केवलं व्युत्पत्तौ अपि तु ध्वनिविज्ञाने अपि भारत-यूरोप-परिवारस्य भागत्वेन चित्रितवान् एव ।
पूर्णतायै शब्दप्रयोगाणां सम्पूर्ण-समूहस्य विचारं करोतु यथा - "राष्ट्रभाषा", "अन्ताराष्ट्रियभाषा", "मातृभाषा", "प्रथमभाषा", "देशीयभाषा", "गृहोपयोगिभाषा", "द्वितीयभाषा", "आधिकारिकभाषा", अथवा "संवादभाषा" ।
एते शब्दाः सुमहान्तः सन्ति, शोधकर्तृषु अद्यापि चर्चायाः विषयाः सन्ति ।
प्रत्येकं विद्वान् तथा च/अथवा देशः स्वसामाजिकस्य, स्वराजनीतिकस्य सन्दर्भस्य अनुसारेण परिभाषासु एकस्य उपयोगे प्रवर्तते ।
महत्त्वपूर्णम् अस्ति यत्, भाषायै दत्तस्य कस्यापि नामाभिधानस्य चिन्तां विना मम प्रस्तुता पद्धतिः नामाभिधानविषये तटस्था अस्ति सा च कासामपि भाषाणां - २ अथवा २२ अथवा अधिकानां - सर्वभाषाणां वा समवाये प्रयोज्या अस्ति ।
भवान् काः भाषाः पठितुम् आकांक्षति अथवा इच्छति, ताः चिनोतु तासां च कैरपि नामभिः सम्बोधनं करोतु ।
उक्तेन सर्वेण सह अहं संमतः अस्मि ।
परन्तु सद्यः विश्वं लघुग्रामः अस्ति, भारतञ्च विशाला वीथिका ।
अतः आङ्ग्लभाषा कस्यापि अन्यपदनाम्नः अपेक्षया अन्ताराष्ट्रियभाषायाः अथवा विश्वभाषायाः रूपेण निर्दिष्टा भवेत् इत्येव वरम् I
इदमेव मे मतम् ।
अहं भिन्नतया चिन्तितुं प्रवर्ते ।
कर्णाटक-राज्यस्य शिवमोग्गा-नगरस्य समीपे शिमोगा-मण्डले मत्तुरु-ग्रामं विहाय यद्यपि एतस्याः प्रयोगः अधुना दैनिकसंवादे देशे कुत्रापि न भवति, तथापि एतत् सुविदितम् अस्ति यत्, संस्कृतम् अनेकभारतीयभाषाणां आधारभूता भाषा अस्ति ।
रुचिकरविषयः अस्ति यत्, उत्तराखण्डराज्यं संस्कृतभाषायाः संवर्धनस्य उद्देशेन एतस्यै द्वितीयाधिकारिकभाषापदं प्रदत्तवत् अपि अस्ति यद्यपि एवं कुर्वाणं राज्यं तत् एकमेव ।
समानप्रोत्साहप्रदा वार्ता अस्ति,
https://www.hindustantimes.com/art-and-culture/sanskrit-india-s-ancient-language-making-gradual-comeback-in-kerala-s-karamana-village/story-q3jlJzYHgJJS1ks0nlWfCJ.html इत्यत्र I
संस्कृतस्य अन्तर्भावस्य पृष्ठे मम कारणे द्विधा स्तः:
a) संस्कृतस्य अध्ययनक्रमस्य पठनं तर्कशास्त्रस्य अध्ययनक्रमस्य पठनेन तुल्यं भवति ।
b) संस्कृतं केवलं भाषा अस्ति, हिन्दूभाषा नास्ति ।
तथैव उर्दू केवलं भाषा अस्ति, न तु मुस्लिमभाषा ।
एवमेव आङ्ग्लं केवलं भाषा, यः कोऽपि तां पठति, सः ताम् अर्जयति ।
यदि वयं राष्ट्रियैकीकरणम् इच्छेम, तर्हि धर्मः भाषा च भिन्नौ एव भवेताम् ।
हिन्दूबाकलस्य धाराप्रवाहेण उर्दूभाषणस्य, मुस्लिमबालकस्य धाराप्रवाहेण संस्कृतभाषणस्य च संलापस्य दृश्यं मनसा कल्पयतु I
तत् लौकिकेश्वरस्य साक्षात् दर्शनवत् भवेत् ।
अहं नास्तिकः अस्मि, परन्तु तत् माम् आस्तिकरूपकाणां प्रयोगात् न निषेधति ।
भारतस्य राष्ट्रियैकीकरणस्य प्राप्तेः अपेक्षया संस्कृतस्य, उर्दूभाषायाः च युगपद् शिक्षणस्य/अध्ययनस्य प्रभावः अपरिमेयः भवति ।
दश वर्षाणि यावत् संस्कृताध्ययनस्य लाभः प्रतिवेशिराज्यस्य प्रचलितभाषाध्ययनस्य लाभात् अतीव गुरुतरः भवति ।
अपि च राज्यसीमयोः परस्तात् अपि जनाः स्वसर्वकारस्य वृत्तिम् अनपेक्ष्य उभयोः राज्ययोः उभे भाषे तु वदन्ति ।
(दिसम्बर १४/१५, २०१७) दिनाङ्के द हिन्दू- दैनिकसमाचारपत्रे वरिष्ठसाहित्यिकगुणदोषविवेचकेन कुलदीपकुमारेण प्रकाशितस्य लेखस्य प्रत्यक्षतः उद्धरणं दत्त्वा प्रायः अहम् एतस्य प्रश्नस्य सुष्ठु प्रत्युत्तरं दातुं शक्नोमि ।
उद्धरणार्थं, "फोर्ट विलियम महाविद्यालये हिन्दी/हिन्दवी/हिन्दुस्तानी इत्येतासां 'सदनं' विभाजितं जातम् आसीत् यस्य स्थापना १८०० मध्ये काल्कट्टा-नगरे (इदानीं कोलकता) जाता आसीत् यत्र च कश्चन परिभ्रमी भाषाविद् शल्यचिकित्सकः जोन बोर्थविक गिल्क्रिस्ट हिन्दुस्तानी-भाषायाः प्राध्यापकत्वेन नियुक्तः आसीत् ।
महाविद्यालयस्य कर्मचारिषु त्रयः भारतीयाः विद्वांसः - सदल मिश्रा, इंशाल्ला खान, लल्लूजी लाल च आसन् ये तिस्रः कृतीः रचयित्वा हिन्दुस्तानीभाषायाः द्वयोः प्रकारयोः अथवा शैल्योः निर्माणे गुरुतमभूमिकां समाचरितवन्तः यौ इदानीं वयम् उर्दू हिन्दी च इति जानीमः ।
लल्लूजीलाल महोदयः सम्भाषणस्य हिन्दुस्तानिभाषायाः संलापिनः तथा पारसी आरबी च शब्दान् अपाकृत्य आधुनिकसंस्कृतपृक्तहिन्दीभाषायाः आविष्कारम् अकरोत्, यावत् इंशा महोदयः मिश्रभाषायाम् अलिखत् ।
फोर्ट विलियम-महाविद्यालये एव संस्कृतपृक्तहिन्दीभाषा हिन्दुभिः सह समीकृता, यावत् अन्यः पारसी-आरबीशब्दयुक्तः प्रकारः मुस्लिमजनैः सह समीकृतः ।"
शताब्द्योः अनन्तरं पृष्ठतः पश्यामः चेत् चित्तरञ्जकः प्रतीयते यत्, कश्चन शल्यचिकित्सकः हिन्दी-उर्दूभाषयोः रूपेण हिन्दुस्तानीभाषायाः विभाजनस्य आध्यक्ष्यम् अवहत् ।
संयोगवशात् अहम् अपि चिकित्सकः अस्मि, उस्मानिया- वैद्यकीयशालातः स्नातकः, येल-प्रशिक्षितः नैदानः, नेशनल-इन्स्टिट्युट-ओफ-हेल्थ(NIH) इत्यनेन निधिदत्तः जीववैद्यकीयशोधगवेषकः तथैव असम्भाव्यः व्यक्तिः यः नूतनं बहुभाषाप्रयोगस्य प्रस्तावं परिकल्प्य तस्य विभाजनस्य लवमपि बाधितुम् अथवा न्यूनीकर्तुं कृतप्रयत्नः अस्मि I
अत्र अवेक्षार्हः अस्ति यत्, सम्बद्धभाषायुगलेषु हिन्दी-उर्दूभाषयोः युगलमध्ये सम्बन्धः तयोः उद्भवस्य अथवा विनिर्मितेः रीत्या अद्वितीयः अस्ति ।
ते आधारे अशेषेण संमते शीर्षे च भिन्ने स्तः- अन्यसम्बद्धभाषायुग्मेभ्यः अत्यन्तं विपरीतं - यथा तेलुगु कन्नडा च ।
हिन्दी-उर्दूभाषे उच्चक्रमस्य शब्दकोशे भिन्ने स्तः, संस्कृतात् हिन्दी पारस-आरबतः उर्दू च ऋणग्राहिण्यौ स्तः ।
अपरत्र तेलुगुकन्नडाभाषे मूलशब्दकोशे भिन्ने स्तः, परन्तु समानप्रायः उच्चक्रमशब्दकोशः अस्ति, सर्वः एकलप्रभवात् ऋणत्वेन स्वीकृतः अस्ति: संस्कृतात् ।
एवं तेलुगुकन्नडभाषे अभिसरणं कुरुतः, (यथा आङ्ग्लं फ्रेञ्च् च कुरुतः) यत्र हिन्दी-उर्दूभाषे व्यावर्तेयाताम् (प्रसाद तथा विर्क् इत्येतयोः उल्लेखं पश्यतु) ।
सङ्क्षेपेण, उर्दू हिन्द्या सह भारतस्य सर्वोत्कृष्टा राष्ट्रभाषा अस्ति (तथा हि संस्कृतम् अपि) ।
हिन्दी-उर्दुभाषयोः भिन्नलिपिभ्याम् आरभ्य समानयुग्मजभगिनीभ्यां सह तुलना भवितुं शक्यते, ये भिन्नपरिवाराभ्यां स्वीकारार्थं दत्ते भवतः, भिन्नतया च संवीते भवतः ।
यद्यपि उभयोः भाषयोः मध्ये सामान्यसंलापे प्रयुक्ताः अनेके समानशब्दाः सन्ति, तथापि एतत् निर्विवादम् अस्ति यत्, उभयोः भाषयोः जन्मतः सम्बन्धः व्यापकरूपेण न ज्ञातः; एषः सम्बन्धः भारतस्य सामान्यनागरिकैः, हिन्दुभिः, मुस्लिमजनैः च समं न बहुमतः अस्ति ।
भाषायाः एतस्य मूलभूतस्य इतिहासस्य ज्ञानम् अस्माकं भाषाणां सम्पृक्ततायाः स्मरणं भरणं च इति एतत् नवयुगस्य विद्यार्थिभ्यः अत्यन्तं लाभयुक्तम् अस्ति ।
राजनीतिरुचिरहितस्य, धार्मिकभावरहितस्य, अनासक्तविचारकस्य च कृते हिन्दी-उर्दूभाषयोः मध्ये कोऽपि भेदः कृत्रिमः, दुर्भाग्यपूर्णः, अनुपयोगी च अस्ति ।
उल्लेखाः :
कुलदीप कुमार। रेख्ता-इत्यस्य बोधनम्: हिन्दी, हिन्दवी, रेख्ता, उर्दू च एकस्याः भाषिक -साहित्यिक-सांस्कृतिक-परम्परायाः भिन्नानि नामानि सन्ति किम्? द हिन्दु दिसम्बर 14/15, 2017.
के वी एस प्रसाद तथा शफकत मुमताझ विर्क । सङ्गणकीयं साक्ष्यम् अस्ति यत्, हिन्दी-उर्दूभाषयोः व्याकरणं समानम् अस्ति परन्तु शब्दकोशः समानः नास्ति । तृतीयकार्यशालायाः वृत्तान्ताः - सौथ आण्ड् सौथ- ईस्ट एशियन नाचुरल लाङ्ग्वगेज प्रोसेसिंग (SANLP) मध्ये, पृष्ठानि 1–14, COLING 2012, मुंबइ, डिसेम्बर 2012.
अमृत राय । एकं विभक्तं सदनम् – हिन्द्याः/हिन्दवी-भाषायाः उत्पत्तिः विकासः च । 320 पिपि ओक्सफोर्ड युनिर्वसिटि प्रेस, 1985.
क्रिस्टोफर आर. किंग । एका भाषा, द्वे लिप्यौ: नवदशशताब्द्यां उत्तरभारते हिन्दी आन्दोलनम् । 232 पिपि ओक्सफोर्ड युनिर्वसिटि प्रेस, 1994.
बहुभाषाप्रयोगस्य कृते निर्मितः विधिः "गणितीय” अथवा "बीजीय” प्रकृतियुक्तः अस्ति, सः मूलतः वैज्ञानिकी विश्लेषणात्मकं कौशलं च आसेवते ।
तस्मै परिणामाय शब्दपुस्तिकायाः निर्माणं जातम् अस्ति ।
प्रत्येकं कक्षायां पञ्चभिन्नभाषासु समानं विषयं/पाठं युगपुत् प्रदर्श्य विद्यार्थिभ्यः पाठनं भविष्यति ।
यद्यपि पञ्चसु भाषासु विषयवस्तु अस्ति यतः तत् समानम् एव अतः सूचनायाः पारिमाणिकता अत्यल्पा जाता अस्ति, एवं तत् छात्रेभ्यः भाररूपं न भविष्यति ।
मम भविष्यवाणी अस्ति यत्, भाषाणाम् एतादृशी तुलनात्मकशिक्षा/सहसम्बद्धशिक्षा असम्बद्धविषयवस्तोः - यथा वर्तमानशिक्षापद्धत्यां परः ५० वर्षाः विद्यमानम् अस्ति - त्रिषु भाषासु अध्ययनापेक्षया अधिकसरलं, अधिकरोचकं, अधिकं प्रबलं च कुर्यात् ।
विभिन्नपरिमाणेषु सामान्यधातूनां, शब्दकोशानां वा, व्याकरणस्य, ध्वनिविज्ञानस्य च प्रत्यक्षतया बोध्यगम्यं विभाजनम् अस्ति ।
अस्माकं भाषाणां सम्पृक्तताविषये ज्ञानम् अस्माकं कृते महत्त्वपूर्णं भवति ।
अहं विश्वसिमि यत् बालकेभ्यः विकासिभ्यः च मतिभ्यः एतेषां सम्बन्धानां दर्शनम् आरम्भे एव च सहसम्बद्धचिन्तनस्य तेषां हृदये निवेशनं च आकर्षकं भवेत् इति I
“अनेकभाषाणां शिक्षणेन को लाभः?" इत्यस्य उत्तरम् अपि पश्यतु I
यथोक्तं मम प्रस्तावः यद्यपि पञ्चभाषाः अन्तर्भावयति तथापि प्रस्तुतया पद्धत्या सूचनायाः पारिमाणिकता अत्यल्पा जाता अस्ति I
मम भविष्यवाणी अस्ति यत् पार्थक्ये पञ्चभाषाणाम् अध्ययनस्य अपेक्षया तासां युगपद् सहसम्बद्धरूपेण अध्ययनम् अधिकसरलं साधकतरं च भविष्यति इति I
एतेभ्यः अन्येभ्यः च अधः उदाहृतेभ्यः निमित्तेभ्यः उल्लेखेभ्यः च अस्य प्रश्नस्य मम उत्तरम् अस्ति यत् बालाय एतेत् भाररूपं न भविष्यति इति I
मोन्टेस्सोरि पद्धत्याः संस्थापिकया डाक्टर् मारिया मोन्टेस्सोरी महोदयया बालमस्तिष्कस्य अध्ययनक्षमतायाः सुष्ठु वर्णनं कृतम् आसीत् यथा "ग्रहणशीलमनः यत् जन्मतः षड् वर्षाणि यावत् बालाः स्ववातावरणे दक्षतां प्राप्तुं कौशलानि अवगमनानि च साधयितुं च असीमप्रेरणां धारयन्ति" ।
षड्-वर्षतः न्यूनवयस्काः बालकाः एकभाषातः अधिकाः मोदेन सह अनायासमेव गृह्णन्ति इत्यपि स्वीकृतम् अस्ति ।
सद्यः संशोधनैः अग्रे ज्ञातं भवति यत् १८ वर्षाणि यावत् नवीनभाषायाः अभ्यासक्षमता सर्वाधिका भवति ततः सा क्षयं गच्छति धाराप्रवाहं प्राप्तुं च १० वर्षेभ्यः पूर्वं पठनम् आरब्धव्यं भवति ।
एषः कश्चन पुरातनः विषयः अस्ति, यः प्रचुरैः विवादैः, चर्चाभिः च युक्तः अस्ति ।
उल्लेखाः :
द सूनर् यू एक्स्पोस् अ बेबि टु ए सेकेण्ड् लाङ्ग्वेग् द स्मार्टर् दे'ल् बी (यावत् शीघ्रं शिशुः द्वितीयभाषां भजते तावत् चतुरतरः भवेत्) - लौरी वास्केस् महोदयया रचितं, https://bigthink.com/laurie-vazquez/the-sooner-you-expose-a-baby-to-a-second-language-the-smarter-theyll-be एप्रिल् 8, 2016.
एट वाट् एज् डस् अवर् एबिलिटि टु लर्न् ए न्यू लाङ्ग्वेज् लैक् ए नेटिव् स्पीकर् डिसप्पियर्? (देशीयवक्ता इव नवीनभाषाम् अध्येतुम् अस्माकं क्षमता कतमे वयसि विलीयते ?) डी जी स्मित् द्वारा सायन्टिफिक् अमेरिकन् मध्ये मई 4, 2018 दिनाङ्के ।
अस्य आवेदनस्य अनुसारेण, "पारम्परिके ज्ञाने सत्यपि नवीनाध्ययनेन ज्ञायते यत्, द्वितीयभाषायां व्याकरणस्य सूक्ष्मताग्रहणं किशोरावस्थायाः कतिपयवर्षाणि यावत् न तस्यति ।"
वाट् इस् दि बेस्ट् एज् टु लेर्न् ए लाङ्ग्वेज् ? (भाषाम् अध्येतुं किं वयः श्रेष्ठम्?) - सोफी हार्डाक् महोदयया रचितम्, अक्टोबर् 25, 2018
अस्य आवेदनस्य अनुसारेण "विदेशीयभाषायाः अध्ययनस्य विषये बालाः पटुतमाः इति चिन्तयितुं अस्माकं प्रवृत्तिः अस्ति I
परं विषयः तथा न भवेत् - प्रौढत्वे आरम्भस्य च समधिकलाभाः सन्ति इति I
मम मते तु युगपत् चतुसॄणां (लेटिन, तेलुगु, देवनागरी, उर्दू च) वर्णमालानां तालिकायाः शिक्षणं कस्यापि एकस्याः एव वर्णमालायाः तालिकाध्ययनवत् योग्यं भवेत् ।
चतुर्गुणम् अधिकं जटिलं वा कठिनं वा स्यात् इति आवश्यकं नास्ति ।
ततः वपरीतं, तासु विद्यमानाः भेदाः विद्यार्थिभ्यः तासां युगपद् अध्ययनम् अधिकं आनन्ददायकं, साधकं च कुर्युः ।
एतत् ABC इत्यस्मात् (वर्णमालायाः) प्रभृति तुलनात्मकं/सहसम्बद्धं चिन्तनं शिक्षणं च अनुमन्यते ।
एषः प्रश्नः शिक्षकाणाम् आविष्कारशीलतायाः सीमापरीक्षणं करोति ।
अस्माभिः वर्णमालानां मध्ये समानताः, भिन्नताः च सुप्रकाश्य पटुदूरभाषाय अनुप्रयोगः रचनीयः अथवा दृश्यचलितं सज्जीकरणीयम् अथवा नाटके अक्षरैः सह पात्रत्वेन व्यवहारं कृत्वा दृश्यचलिते क्रीडानिर्माणम् अपि करणीयं वा भवेत् ।
अपरञ्च अक्षरेषु दत्तावधानाः स्वापिकाः अथवा बालगीतानि लेखितुं गातुं च शक्यन्ते ।
एतत् उल्लासपूर्णेन परिणामेन सह बालानां भृशं मोदनाय चतसॄणां वर्णमालानां तुलनात्मकं शिक्षणं साधकतया मनोरञ्जकतया च साधयिष्यति ।
यथा लोकोक्त्यां कथितं आवश्यकता आविष्कारस्य जननी अस्ति इति ।
टिप्पणी - अधिकं पठितुं भाषानाम नुदतु I
असमीया, बेङ्गाली (बाङ्ग्ला) , बोडो, डोगरी, गुजराती, हिन्दी, कन्नडा, काश्मीरी, कोङ्कणी, मैथिली, मलयाळम्, मेइती (मणिपुरी), मराठी, नेपाली, उडिया, पञ्जाबी, संस्कृतम्, सन्थाली, सिन्धि, तमिळ, तेलुगु उर्दू
च
यथाभिमतं निर्मितं संलग्नं "राज्यशः भारतस्य भाषाः" मानचित्रं पश्यतु ।
प्रत्येकं राज्याय, राज्यस्य नाम, मुख्यभाषायाः नाम अधिकञ्च एतत् प्रदर्शयति - यथा - तेलङ्गाना, तेलुगु अधिकञ्च ।
यदि भवान् "तेलुगु अधिकञ्च " उपरि नुदति, तर्हि तेलङ्गानाराज्ये उच्यमानाः सर्वाः भाषाः द्रक्ष्यति ।
भाषायाः विविधता भारतस्य समृद्धराष्ट्रियपरम्परा अस्ति स्वस्याः पूर्णसीमां यावत् या अद्यापि प्रयुक्ता नास्ति ।
अहं जाने च यत्, अस्माकं परम्परारूपेण विविधतायाः स्वीकारः, संयोगः च ("पारम्पर्यम्" "सम्प्रदायः" "कुटुम्बः" "खान्दान्" “वंशावली,” “परिवारः,” “परम्परा” इत्येषां भावत्वेन) बहूनां कृते दूरस्वप्नः अस्ति ।
भारतस्य विविधता तस्य नागरिकैः न तावत् अशेषतः पुरस्कृता, प्रतिष्ठिता संश्रिता च I
ऐतिहासिकं सन्दर्भं दातुं यथा अस्मासु बहवः परिचिताः सन्ति "राष्ट्रियैकीकरणभाषाशृङ्खला" बालाजी प्रकाशनं, मद्रास (चेन्नै), ईदृशानि शीर्षकानि प्रकाशयति यथा - "३० दिनेषु आङ्ग्लमाध्यमेन तेलुगुभाषां पठतु", "३० दिनेषु हिन्दीमाध्यमेन तेलुगुभाषां पठतु", "३० दिनेषु आङ्ग्लमाध्यमेन संस्कृतभाषां पठतु" इत्यादीनि ।
एषा शृङ्खला न्यूनातिन्यूनं चत्वारिंशत् वर्षाणि यावत् विद्यते ।
अहं न जाने यत्, केनापि राष्ट्रियैकीकरणस्य घोषतिलक्ष्यं प्राप्तुं तेषां प्रभावशीलतायाः, प्रभावस्य च अध्ययनं कृत्वा प्रकाशनं कृतम् अस्ति न वा इति ।
1 जून 2019 दिनाङ्के 2019 वर्षस्य राष्ट्रियशिक्षानीतेः पर्यालोचनायाः प्रकाशनोत्तरं वर्तमानकोलाहलं दृष्ट्वा 1947 मध्ये स्वतन्त्रतायाः ७३ वर्षोत्तरं राष्ट्रियभाषायाः एकीकरणस्य लक्ष्यम् असाधितं तिष्ठति ।
कस्मादपि प्रमाणात् एषः दीर्घः समयः अस्ति ।
भाषां परितः सद्यःकालीनम् आन्दोलनं 1960 दशकात् पुनरावृत्ता घटना आसीत् सा च मह्यं दृष्टपूर्वतायाः भावम् अयच्छत् ।
लक्ष्यनिर्धारणं, लक्ष्यप्राप्तिः च पूर्णतया भिन्नौ विषयौ स्तः ।
परम् एतत् अमहत् लक्ष्यं नास्ति ।
एतत् प्राप्तुं नूतनोपक्रमस्य आवश्यकता अस्ति ।
मया प्रस्तुता बहुभाषाप्रयोगस्य पद्धतिः पूर्वप्रतिरूपेभ्यः भिन्ना अस्ति, तया च राष्ट्रियैकीकरणस्य कृते आवश्यकीः सर्वपञ्चभाषाः सिद्धिपूर्वकं, विश्लेषणात्मकतया च एकसङ्घटितक्रमेण पाठयितुम् आशंसितम् अस्ति ।
अतः शिक्षणाय लक्षितभाषाः त्रयाणां राष्ट्रियभाषाणां प्रतिनिधित्वं कुर्वन्ति (मम मते, तिस्रः अपि: हिन्दी, संस्कृतं, उर्दू च), एका अन्ताराष्ट्रिया भाषा (आङ्ग्लम्), एका प्रादेशिकभाषा/स्थानीयभाषा (तेलुगु, या मम मातृभाषा अस्ति) च ।
कापि प्रादेशिकभाषा/स्थानीयभाषा तेलुगुभाषास्थाने संस्थापिता भवेत् यदि सा तस्याः भिन्ना अस्ति I
उद्देशमवलम्ब्य राष्ट्रियाणाम् अथवा अन्ताराष्ट्रियाणां भाषाणां काश्चिदपि सङ्ख्याः अथवा कांश्चिदपि समवायान् पाठयितुं शक्यते ।
मम अवधानं भारतीयसन्दर्भविषये तिष्ठति ।
यद्यपि एषः प्रस्तावः भारतस्य विशेषस्थित्याः समुद्भूतः, तथापि एषा पद्धतिः सामान्यपरिसरे विश्वस्य सर्वभाषाभ्यः च प्रयोज्या भवति ।
उदहरणार्थं यूरोपियन्.मल्टिलाङ्ग्वेजिङ्ग्.काम् european.multilanguaging.org. इति जालस्थानं पश्यतु I
भाषाणां परिभाषायाः गणनायाः च प्रकारम् अवलम्ब्य विश्वे प्रायः ६५०० भाषाः विद्यन्ते ।
एतावत्यः भाषाः सन्ति, यतः :
a) जनानां समूहे अथवा समाजे भाषा संवादसाधनस्य प्रतिनिधित्वं करोति, एवञ्च
b) यदि कोऽपि समाजः केनापि कारणेन बाह्यविश्वात् सम्पर्कं विना शतानि अथवा सहस्राणि वर्षाणि यावत् एकस्मिन्नेव भौगोलिकस्थाने निरुद्धः तिष्ठति, तर्हि तेषां संवादस्य पद्धतिः स्फटिकवत् व्यवस्थिता भवति, तेन नवीनभाषायाः जन्म भवति, प्रत्येकं स्वकल्पकशक्त्या समृद्धा भवति ।
अचिरात् यथा अधुना दृश्यते, तथा विश्वं लघु नासीत् ।
विश्वस्य प्रत्येकं कोणः अथवा लघुप्रदेशः स्वयं विश्वम् अथवा ब्रह्माण्डमेवासीत् ।
भाषाविदां पुरतः एतत् आह्वानम् अस्ति, परन्तु मम मतम् अस्ति यत्, एतत् सुसम्पाद्यम् अस्ति इति ।
एतत् सरलीकर्तुं आधेयस्य विंशतिप्रतिशतस्य भागस्य प्रतिनिधित्वम् आङ्ग्लं, तेलुगु, हिन्दी, उर्दू, संस्कृतं, च इति पञ्चभाषासु प्रत्येकं करिष्यति ।
एकं स्पष्टार्थम् उदाहरणं दातुं - स्वासु स्वासु भाषासु आदर्शभूतैः विषयैः सह टेनीसन, वेमाना, प्रेमचन्दः, कालिदासः, इकबालः इत्येषां कविताः वृताः भवितुं शक्यन्ते ।
विशिष्टस्य आधेयस्य पाठ्यविषयस्य च वरणं सज्जीकरणं च सर्वकारीयस्य साहाय्यस्य अधिकारस्य च नाथत्वे भाषाविद्भ्यः भाषाविशारदेभ्यः च दास्यते ।
पञ्चभाषासु समानाधेयेन सह प्रत्येकं कक्षायाः पाठान् धरतां नवीनपुस्तकानां निर्माणं भविष्यति ।
नवीनवर्गविषयः "अस्माकं भाषाः" इति निर्दिष्टः भविष्यति ।
सम्प्रति विद्यमानानां त्रयाणां भाषापुस्तकानाम् (आङ्ग्लम्, तेलुगु, हिन्दी च) संयुक्तेन आकारेण सः समाविष्टः भविष्यति ।
सुविधायै त्रिमासानुगुणम् अथवा अन्यस्य कस्यचिदपि प्रमाणस्य अथवा अभिधानस्य उपयोगेन यथार्हं स्यात् तस्य त्रिषु भागेषु विभाजनं कर्तुं शक्यते, Q1-Q3, इति ।
निश्चितम् ईषद्दर्शनम् अथवा सङ्घटितायाः आकर्षकतायाः भावनां प्रदातुं च १-१० कक्षाभ्यः पाठ्यपुस्तकानां काल्पनिकानि मुखपृष्ठानि प्रतिरूपत्वेन प्रदत्तानि सन्ति ।
प्रत्येकं कक्षा त्रिरङ्गस्य पृष्ठभूम्या सह भारतस्य एकेन राष्ट्रियचिह्नेन अभिज्ञाता अस्ति इदं च कमलेन सह १ कक्षातः (प्रथमकक्षातः) प्रारभ्य १० कक्षायां (दशमकक्षायां) पदप्राप्तिवर्षस्य चिह्नरूपेण काङ्ग्चन्जङ्गया सह (हिमालयः) परां कोटिं गच्छति ।
सामान्यतः, उदाहरणत्वेन तेलुगुभाषिप्रेदशयोः तेलङ्गानाराज्ये, आन्ध्रप्रदेशे च तेलुगु १ कक्षातः १० कक्षापर्यन्तं पाठ्यते, आङ्ग्लं ३ कक्षातः १० कक्षापर्यन्तं पाठ्यते, हिन्दी च ६ कक्षातः १० कक्षापर्यन्तं पाठ्यते ।
प्रत्येकं भाषा अन्यद्वयोः भाषयोः निरपेक्षतया पाठ्यते ।
शालायाः शिक्षामाध्यमम् अवलम्ब्य गणितं, विज्ञानं, सामाजिकविज्ञानं च तेलुगुभाषायाम् अथवा आङ्ग्लभाषायां पाठ्यन्ते ।
बहुभाषाप्लावनं सामान्यतः उभयाप्लावनं भवति, यत् द्विभाषिशिक्षणम् अन्तर्भावयति, यत्र द्वे भाषे सर्वान् विषयान् पाठयितुं प्रयुज्येते, तत्र गणितं, विज्ञानं, सामाजिकविज्ञानं च अन्तर्भवन्ति ।
केनेडा-देशे, तेषां पार्श्वे आङ्ग्लं/फ्रेञ्च उभयाप्लावनस्य पद्धतिः स्यात् ।
यू एस् मध्ये, आङ्ग्लं/स्पेनिश् अधिकं सामान्यं स्यात् ।
विद्यार्थिनः एकसमये एकया भाषया पठन्ति ।
अनुदिनं अनुसप्ताहम् अथवा अनुमासं भाषा विपर्यस्ता स्यात् अथवा एका भाषा प्रातःकाले, अपरा च अपराह्णे प्रयुक्ता स्यात् ।
तत्र अन्यविकल्पाः स्युः ।
आप्लावनकार्यक्रमः द्विभाषिव्यवस्थायाम् उचितं भवेत् परन्तु एषः पञ्चभाषिपरिस्थितौ व्यवहारतः उचितः इति अहं न मन्ये ।
अपि च, गणितं गणितम् अस्ति- तत् स्वयमेव एका भाषा ।
अतः गणितं पाठयितुं का भाषा प्रयुज्यते इत्येतत् अनपेक्ष्य विद्यार्थिभ्यः अधिकं भाषाशिक्षणानुभवस्य प्राप्तिः न भवेत् ।
मम प्रकल्पः केनेडा/यू एस् आप्लावनकार्यक्रमेभ्यः अतिभिन्नतया विद्यार्थिनः क्षमान् कर्तुं, पञ्चभाषाणां पठने तान् आप्लावयितुं च आधेयस्य मात्रां सविवेकं सीमितां कर्तुं प्रस्तौति ।
प्रस्तुतस्य "अस्माकं भाषाः" वर्गस्य उद्देशः वृताः पञ्चभाषाः येषां शब्दकोशानां व्याकरणानां संस्कृतीनां च प्रतिनिधित्वं कुर्युः, तेषां विषये समानतानां भिन्नतानां च तेषां परपरससम्बन्धस्य च सङ्घटितसदनरूपेण गभीरतया ज्ञानप्राप्तिः अस्ति ।
एषः मम प्रस्तावस्य सहसम्बद्धः संयोजकः च सिद्धान्तः अस्ति यः एकभाषाशिक्षणस्य अपेक्षया अनेकभाषाणां शिक्षणं एकम् अधिकं रसमयम् अनुभवं कुर्यात् ।
मम ज्ञाने भारतं उभयाप्लावनम् इति एतादृश्याः कार्यप्रणाल्याः उपयोगं न करोति ।
मम प्रस्तावः अपि एतादृशं भाषा-आप्लावनं न अन्तर्भावयति ।
मम अवधानं वृतस्य समानाधेयस्य उपयोगं कृत्वा पञ्च भाषाणां पाठने भवति ।
गणितं, विज्ञानं, सामाजिकविज्ञानं च शिक्षामाध्यमानुसारं पाठनीयानि यथा तानि इदानीं भारते पाठ्यन्ते ।
तुलनात्मकानां गणनानां प्राप्त्यै स्वीकरोतु यत्, एकस्मिन् शालावर्षे भाषापाठनाय उपलभ्यसमयः उभयपद्धतिभ्यां समानः भवति ।
एकवर्षे २२० कार्यदिनानि भवन्ति, येषु २० दिनानाम् उपयोगः परीक्षायाः आयोजनार्थं भवति पाठनाय २०० दिनानि एव उपलभ्यानि भवन्ति ।
उदाहरणार्थं तेलङ्गानाराज्ये, आन्ध्रप्रदेशे च एकस्मिन् वर्षे तेलुगु २०० दिनानि यावत् प्रतिदिनं ४५ निमेषाः यावत् पाठ्यते, समानतया च आङ्ग्लं २०० दिनानि यावत् प्रतिदिनं ४५ निमेषाः यावत् पाठ्यते, विपर्यये तु हिन्दी १३३ दिनानि यावत् प्रतिदिनं ४५ निमेषाः यावत् पाठ्यते च ।
गणनानुसारं तेलुगु-आङ्ग्लभाषे प्रत्येकमपि एकवर्षे १५० होराः यावत् पाठ्येते, विपर्यये तु हिन्दी एकवर्षे १०० होराः यावत् पाठ्यते ।
एवम् एकवर्षे समाहृत्य त्रिभाषाः ४०० होराः इति समस्तकालांशः यावत् पाठ्यन्ते ।
चर्चायै पारम्परिकपद्धत्यां प्रतिवर्षं तेलुगुभाषायां ३० भिन्नपाठविषयाः, आङ्ग्ले ३० भिन्नपाठविषयाः, हिन्द्यां २० भिन्नपाठविषयाः च इति भाषाभ्यः आहत्य ८० भिन्नपाठविषयाः भवन्ति इति मन्यताम् ।
माध्यानुसारं प्रत्येकं पाठविषयः ५ होराः यावत् पाठ्यते ।
पञ्चभाषाभिः युगपत् प्रत्येकं पाठविषयं पाठयितुं भिन्नपाठविषयाणां सङ्ख्यां ४० अथवा २० (सम्बद्धानां पञ्चभाषाणां आङ्ग्लं, तेलुगु, हिन्दी, संस्कृतं, उर्दू च इत्येतासाम् आधेयस्य ८ अथवा ४) पर्यन्तम् अपि न्यूनीकर्तुं विचारं करोतु ।
एवं पञ्चभाषाभिः प्रत्येकं विषयं युगपत् पाठयितुं वर्षे १० तः २० पर्यन्तं होराः प्राप्यन्ते ।
भाषाणां (२, ३, अथवा ५ वा भवेयुः) शिक्षणाय उपलभ्यः समस्तसमयः एकवर्षे स्थिरः भवति इति विचिन्त्य या विकारिणी न्यूनीकर्तव्या अथवा वर्धयितव्या वा सा भिन्नपाठविषयाणां सङ्ख्या या भाषाणाम् अध्ययनस्य वाञ्छितान् परिणामान् प्राप्तुम् आवश्यकी I
स्मरतु, भाषाकक्षाः अन्ततः आधेयपठनविषयस्य अपेक्षया अधिकं भाषायाः पठनविषये भवन्ति I
पाठनाय/पठनाय कति भाषाः (२, ३ अथवा अधिकाः) स्युः इति स्वन्तत्रभारतस्य स्थापनायाः प्रथमदिनात् प्राक्तनः अथवा आद्यः प्रश्नः भूतः, भाषाणां सङ्ख्याविषये विवादः कदाचिद् अचिरेण शमयति इति एतत् दुःसम्भाव्यम् ।
परन्तु आशा अस्ति यत्, मम प्रस्तुतः सहसम्बद्धः उपक्रमः तत्र जनेषु विरामं स्थापयिष्यति, पुनर्विचारं कारयिष्यति, तेषाम् ईषत् भयं दुराग्रहं च विसर्जयति इति ।
अहं कथयिष्यामि यत्, पञ्चभाषाणां पठनस्य समग्रलाभाः वर्तमानपद्धतिवत् सूचनायाः केषाञ्चित् अधिकानां पृथक्स्थानाम् असम्बद्धानाम् एककानां पठनस्य लाभेभ्यः अतिगुरुतराः भवन्ति ।
तत्स्थाने अधिकानां भाषाणां पठनं कृत्वा भवान् नवीनावलोकनानि प्रवेष्टुं कुञ्चिकाः अथवा गूढाक्षराणि उपलभते ।
एकवारं भवता एका भाषा पठिता चेत्, भवान् स्वयं सूचनायाः यानि कान्यपि एककानि कथं पठनीयानि इति जानाति ।
एतदेव पठनार्थं शिक्षणम् अस्ति ।
आदर्शतया त्रयः भिन्नाः शिक्षकाः युगपत् पञ्चभाषाः पाठयितुं शक्नुवन्ति, येषु द्वौ शिक्षकौ भवतः ययोः प्रत्येकः अपि द्वे भाषे पाठयितुं क्षमः योग्यः च भवति ।
सोपानम् १: पाठस्य पञ्चभाषासंस्करणेभ्यः प्रत्येकं तस्यै भाषायै सम्प्रदिष्टेन शिक्षकेण यथाकृतं पाठितं भविष्यति ।
सोपानम् २: विद्यार्थिनः स्वयं शब्दपुस्तकस्य कार्यं कृत्वा तस्य स्वयम् अध्ययनं करिष्यन्ति ।
सोपानम् ३: पञ्चभाषाणां मध्ये परस्परसम्बन्धानाम् अन्वेषणार्थं पाठनार्थं/पठनार्थं च सर्वैः त्रिभिः शिक्षकैः विद्यार्थिभिः च सहसम्बद्धायाः अथवा संयुक्तायाः वा कक्षायाः आयोजनं कृतं भविष्यति ।
एतस्यां प्रक्रियायां न केवलं विद्यार्थिनः अपि तु शिक्षकाः अपि अन्यभाषाणाम् अन्यशिक्षकेभ्यः पठन्तः भविष्यन्ति ।
एवं सर्वेषां संस्रष्टॄणां कृते एतत् एकः शिक्षानुभवः भविष्यति ।
प्रत्येकं पाठस्य अन्ते सर्वासु पञ्चभाषासु पाठस्य आधेयस्य प्रासङ्गिकत्वस्य अनुसारेण लघ्वी कविता अथवा लघुगीतम् अन्तर्भूतं भवितुम् अर्हति ।
पाठस्य समापनं बोधयितुं सर्वासु पञ्चभाषासु एतस्य वृन्दगानं भवितुम् अर्हति, येन सुखदः सामाजिकः सन्दर्भः परिकल्पितः भवति I
एषः उपक्रमः विद्यार्थिषु न केवलं एतासां पञ्चभाषाणां पठने लेखने सम्भाषणे च अतीव कौशलम् उत्पादयति, अपि तु एतासां पञ्चभाषाणां व्याकरणम्, इतिहासं, समृद्धसांस्कृतिपरम्परादीनां अन्यपक्षाणाम् अपि व्यापकं ज्ञानं तेभ्यः दास्यति ।
अपरञ्च दश वर्षाणि यावत् प्रतिवर्षं पञ्चवार्षिकपरीक्षासु सफलतया उत्तरणार्थं तान् क्षमान् कर्तुम् एतत् पर्याप्तं सारभूतं भवेत् ।
अहं प्रस्तुयां यत्, पाठ्यपुस्तकं प्रत्येकं वर्गस्य पाठस्य अन्ते शिक्षणीयं अन्त-टिप्पण्यः नामकं अनुभागं धरेत् इति ।
एतस्मिन् खण्डे प्रकृतपाठाय यथा प्रासङ्गिकाः स्युः तथा तुलनात्मकव्युत्पत्तयः, वाक्यविन्यासाः व्याकरणं च इत्येतेषु टिप्पण्यः प्रदत्ताः भवेयुः ।
प्रस्तुतपद्धत्याः शक्तिः एतस्याः तुलनात्मकाध्ययनम् आश्रयते ।
अन्तटिप्पण्यः अनुभागः पञ्चभाषाणां समानतासु भिन्नतासु प्रत्येकस्याः अद्वितीयेषु अन्यव्याकरणसम्बद्धेषु सिद्धान्तेषु च तीक्ष्णम् अवधानम् आकर्षयेत्।
प्रत्येकं भाषा अन्यानां चतसॄणां भाषाणां विचारसंस्थानं प्रयच्छति; विद्यार्थी कदापि शून्ये अथवा पार्थक्ये कार्यं न करोति ।
एतस्मिन् प्रतिरूपे प्रायेण भाषाणां शिक्षणम्/अध्ययनम् अत्यन्तं साधकतमं भविष्यति ।
पार्थक्ये कस्यापि विषयस्य अध्ययनं मां न उत्तेजयति ।
एतत् अधिकं चित्ताकर्षि, लाभकारि, उत्पादकं च भवति, यदि विद्यार्थिनः सन्दर्भे कस्यचित् निश्चितभाषालक्षणस्य निर्माणस्य अन्वेषणं कर्तुं शक्नुवन्ति अग्रिमविषयं प्रति गमनात् पूर्वं तस्य संरचनायाः, उपयोगानाम्, उदाहरणानां च सारं च प्राप्तुं शक्नुवन्ति ।
प्रत्येकम् अध्यायस्य अन्ते अन्त-टिप्पणी नां धारणं प्रकृतपाठस्य आधेयात् उत्पन्नान् विविधविषयान् साधकतया व्याख्यातुं संविधातुं च नाम्यतां प्रदास्यति I
मम दृष्टौ एषा समस्या नास्ति, प्रत्युत लाभः अस्ति, यतः,
प्रथमप्रश्नस्य मम उत्तरम् "न" इति अस्ति ।
मया भावनायाः प्रस्तुत्यै उदाहरणरूपेण तेलुगुभाषिराज्ययोः उपयोगः कृतः यतः ताभ्यां सह अधिकं परिचतः अस्मि ।
इदं शिक्षणप्रतिरूपम् अन्यराज्येभ्यः अपि प्रयोज्यं भवति, परन्तु अहं चिन्तयामि यत्, द्वितीयप्रश्नः अतीव सूक्ष्मः अस्ति, उत्तरं दातुं किञ्चिदिव जटिलः च अस्ति ।
परिणतरूपेण प्रदत्तरूपेण च बहुभाषाप्रयोगप्रस्तावस्य उपलभ्यत्वात् एव तथा च जनः मुख्यतः स्वलाभाय गौणतः च राष्ट्रलाभाय कस्याश्चित् भाषायाः पठनं वृणोति इति अस्मात् मूलात् च अहं एतस्य प्रश्नस्य उत्तरं दातुम् उत्सहे ।
मम "परिकथात्मकम्" उत्तरम् अस्ति:
अशीतिप्रतिशतं आधेयं भारते आपार्श्वान्तरात् समानं भविष्यति आधेयस्य २०% प्रादेशिकभाषायै/स्थानीयभाषायै समर्पितं भविष्यति ।
तेलुगुभाषायाः भागः स्वेषु स्वेषु राज्येषु तमिळ, कन्नडा, मलयाळम् इत्यादिभिः भाषाभिः स्वस्थाने पुनर्निवेशितः भविष्यति ।
प्रत्येकं हिन्दीराज्यम् उत्तर-दक्षिणयोः भाषाधारितं सम्बन्धं स्थापयित्वा द्राविडभाषसु (दक्षणिभारतीयासु) एकस्याः भगिनीभाषारूपेण राज्यविधानसभायाः केनापि अधिनियमेन आधिकारिकतया, स्थायितया च अङ्गीकारं करिष्यति ।
यदि दश हिन्दीराज्यानि/क्षेत्राणि च भिन्नानां दक्षिणभारतीयानां भाषाणां भगिनीभाषारूपेण अङ्गीकारं कुर्युः, तर्हि भाषिकभूप्रदेशं मनसा कल्पयताम् ।
उदाहरणार्थं हिमाचलप्रदेशे तेलुगुपठतां, मध्यप्रदेशे मलयाळम्-पठतां, झारखण्डे कन्नडा-पठतां, उत्तरप्रदेशे तमिळ-पठतां च बालानां कल्पनां करोतु ।
भगिन्यः इव संनिबद्धानां उत्तर-दक्षिणराज्यानां मध्ये प्रतिवर्षं घटमानानां परस्परविद्यार्थिभ्रमणानां कल्पनां करोतु ।
तत् गहनं, ऐतिहासिकं च भविष्यति ।
अतीते एतत् केवलम् अध्ययनेच्छायाः अभावस्य प्रसङ्गः एव न भूतः स्यात्, अपि तु साधिकायाः कार्यप्रणाल्याः अपि अभावस्य प्रसङ्गः भूतः स्यात् ।
शिक्षणस्य बहुभाषाप्रयोगपद्धतेः उपलभ्यता प्रायेण एतादृशीं "परिकथां" वास्तविकां साध्यां च कुर्यात् – केवलं यदि वाञ्छितम् अथवा प्रार्थितम् ।
परिकथा भवतु अथवा अपरिकथा अन्तिमे विश्लेषणे एते आवश्यकतया इतरेतरराज्यैः करणीयाः राजनैतिकाः, सर्वकारीयाः च निर्णयाः भवन्ति, यत्र तेलङ्गाणाराज्यं, आन्ध्रप्रदेशराज्यं च अन्तर्भवतः ।
निश्चितम्, एतस्य प्रमाणीकरणम् आवश्यकं भवति ।
सम्पूर्णा पद्धतिः वैज्ञानिकपरीक्षणस्य भावनया परिकल्पिता अस्ति ।
निःसंशयम् एषः दीर्घकालीनः प्रकल्पः अस्ति ।
स्पष्टं, प्रारम्भे एतत् असम्भवम् अस्ति ।
अतः समुचितः मार्गः भवेत् यत् प्रथमकक्षार्थं विषयाणां सज्जीकरणं भवेत् ततः तस्मिन् वर्षे द्वितीयकक्षार्थं सज्जीकरणं येन यदा एषः गणः अग्रिमकक्षां गच्छति तदा ते सज्जीकृताः भवेयुः ।
सामान्यतः एतादृशेभ्यः जटिलेभ्यः महत्त्वपू्णेभ्यः च प्रकल्पेभ्यः प्रतिभागिभ्यः प्रतिक्रिया बहुशः श्रेयस्त्वं प्रति नयति ।
अहं पूर्णतया संमतः अस्मि ।
अहं शिक्षणार्थं बहुमाध्यमद्वारा उपक्रमस्य साधकतायां विश्वासं करोमि ।
एतत् एकसोपानम् अग्रे नेतुं भारतस्य सुमहत्चलच्चित्रोद्योगस्य द्वे साधनसम्पत्ती बोलीवुड, टोलीवुड च कतिपयान् अनुत्तमान् गीतशब्दान् अविस्मरणीयान् रागान् च सृष्टवन्तौ स्तः ।
एतत् कियदपि असाम्प्रदायिकं प्रतिभायात्, परन्तु अहं सर्वभावेन प्रस्तावं करिष्यामि यत्, कक्षाभ्यः (वर्गेभ्यः) यथार्हं विभिन्नशैलीनां सर्वोत्तमानां बोलीवुड-टोलीवुड-गीतानां सावधानम् अभिज्ञानं भवेत्, तेषां गीतशब्दानां सुचारुतया चतसृषु अन्यभाषासु अनुवादः भूत्वा विद्यार्थिभिः तेषां मूलरागानुसारं गानं भवेत् ।
अनेकभाषाणाम् अध्ययनम् एतस्मात् त्वरितरम् अथवा अधिकानन्ददायकं न भवितुम् अर्हति ।
किं यावन्न वयं सर्वे आत्मानं पृच्छामः यत् एतत् अतीतवर्षेषु किमर्थं न कृतम् इति एतत् तावत् कालास्पदम् एव भवेत् ?
समापने:
तस्य भविष्यस्य कल्पनां करोतु, यस्मिन् भारतस्य प्रत्येकं नागरिकः पञ्चभाषासु तथैव विनायासं सम्भाषणं करोति यथा ते अद्य पटुदूरभाषस्य उपयोगं कुर्वन्ति ।
अचिरेण भारतीयेषु विशेषाधिकारयुक्ताः अल्पसङ्ख्यकाः जनाः एव दूरभाषस्य अभिगमं भुक्तवन्तः इति स्मर्यताम् ।
प्रौद्योगिक्या एतादृशस्य विशेषाधिकारस्य लोकतन्त्रीकरणं कृत्वा सर्वदा परिस्थितेः पूर्णपरिवर्तनं कृतम् ।
अहं मन्ये यत् एतादृशी एव परिस्थितिः सर्वदा विद्यमाना आसीत् यत् भारतीयेषु केवलम् एकः विशेषाधिकारयुक्तः समुदायः संस्कृतभाषायाः निधीनाम् अभिगमं भुक्तवान् अस्ति इति ।
बहुभाषाप्रयोगस्य प्रस्तावः प्रायेण एतस्याः परिस्थित्याः परिवर्तनं कृत्वा भारतस्य सर्वसमुदायप्रभवाणां अधिकानां कवीनां, कलाकाराणां, विदुषां, वैज्ञानिकानां च सृष्टिं कुर्यात्, एतान् व्यवसायान् पूर्वापेक्षया अधिकान् बहुमानितान् च कुर्यात् ।
भवान् अग्रे आशां कर्तुं शक्नोति यत् प्रस्तावः सामाजिकस्य नागरिकसम्बद्धस्य च संलापस्य अन्वये हितकरं परिवर्तनं जनयिष्यति इति ।
अतः भवान् एवं विचारं कर्तुं शक्नुयात् यत्, बहुभाषाप्रयोगशिक्षां प्रति अभिगमप्राप्तिः एकः अमूल्यः उपहारः अस्ति, एकः अधिकारः एकः विशेषाधिकारश्च अस्ति, यथा कदाचित् भवता दूरभाषस्य अभिगमप्राप्तेः विषये चिन्तितं स्यात् ।
वरं भवद्भिः एतादृशेभ्यः शैक्षणिकेभ्यः अवसेरभ्यः सङ्घर्षः करणीयः भवति, अनेन सह डयनीयं भवति न च एतस्य विरोधम् ।
प्रप्रथमं भाषाणां समानतायाः दृढीकरणम् अथवा प्राप्तिं विना देशस्य नागरिकेषु समानता विभाव्या न भवति ।
एतत् अतीव मौलिकम् अस्ति— एतत् महत्त्वपूर्णम् अस्ति ।
जय हिन्द । जय विश्वम् ।
स्वीकृतयः
बहुलमर्थितप्रश्नानां रचनायाम् उपकारकप्रेरणादायकचर्चायै श्री मोहम्मद जनिमिया, सेवानिवृत्तः प्रौढशालायाः शिक्षकः, नडिगूडेम, तेलङ्गानाराज्यं, प्राध्यापकः निरञ्जन वी. जोशी, प्राध्यापकः एमिरिटस (पदवीनिवृत्तः धृतोपाधिः), इण्डियन् इन्स्टिटूट् आफ् सैंस् (IISc), बेङ्गलूरु, कर्नाटकराज्यं, इत्येतयोः मम बहुधन्यवादाः देयाः।
मोहम्मदः ZPHS नूतङ्कल् इत्यत्र मम सहपाठी आसीत्, निरञ्जनश्च IISc इत्यत्र सहशोधार्थी च आसीत् ।
मम जीवने एतौ जनौ स्तः, याभ्यां सह मया वर्षाणि यावत् अभिन्नमित्रतायाः आनन्दः अनुभूतः, यावत्कालम् अहं तौ ज्ञातवान् अस्मि ।
तौ सर्वदा साहाय्यार्थं, विवादाय, चर्चायै च, उपस्थितौ आस्तां यस्य कृते अहं कृतज्ञः अस्मि ।
अन्ते रोचेस्टर, एन्वै इत्यत्र रोचेस्टर-विश्वविद्यालयस्य आधुनिकभाषाणां, आधुनिकसंस्कृतीनां च विभागस्य भाषा केन्द्रस्य निदेशिकायै, पुर्तगाली-कार्यक्रमस्य अध्यक्षायै, डाक्टर् टेरेसा वाल्डेझ महोदयायै मम प्रशंसा देया ।
डाक्टर् वाल्डेझ महोदया प्रसन्नतया सम्पूर्णस्य प्रस्तावस्य समीक्षां कृतवती, अमूल्यान् प्रबोधान् दत्तवती च ।
Click here for Explainer Video Slideshow
Click here for Explainer Video
వివరణాత్మక వీడియో స్లైడ్ షో కోసం ఇక్కడ క్లిక్ చేయండి
వివరణాత్మక వీడియో కోసం ఇక్కడ క్లిక్ చేయండి
व्याख्यात्मक विडियो के स्लाइड शो के लिए यहाँ क्लिक करें
व्याख्यात्मक विडियो के लिए यहाँ क्लिक करें
وضاحتی ویڈیو کے سلائیڈ شو کے لئے یہاں کلک کریں
وضاحتی ویڈیو کے لئے یہاں کلک کریں
प्रदीपकदृश्यस्य सरद्बिम्बप्रदर्शनार्थम् अत्र नुदतु
प्रदीपकदृश्यार्थम् अत्र नुदतु